SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 148 // दन्तशोधनाद्यपि परेण दत्तं एषणीयं- उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदूनार्तानां यावज्जीवं परदत्तैषणा श्रुतस्कन्धः१ दुःखं भवति, अपिचेयं याञ्चा याचापरीषहोऽल्पसत्त्वैर्दुःखेन प्रणोद्यते त्यज्यते, तथा चोक्तं-खिज्जइ मुहलावण्णं वाया घोलेइ तृतीयमध्ययनं उपसर्गपरिज्ञा, कंठमझमि। कहकहकहेइ हिययं देहित्ति परं भणंतस्स॥१॥गतिभ्रंशो मुखे दैन्यम्, गात्रस्वेदो विवर्णता। मरणे यानि चिह्नानि, तानि चिह्नानि याचके॥१॥ इत्यादि, एवंदुस्त्यजं याञ्चापरीषहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसेवितं सूत्रम् 7-8 पन्थानमनुव्रजन्तीति / श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति- पृथग्जनाः प्राकृतपुरुषा अनार्यकल्पा इत्येवमाहुः इत्येवमुक्तवन्तः, (171-172)/ परिषहानां तद्यथा- ये एते यतयः जल्लाविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ताः पूर्वस्वकृतकर्मणः दुःसहता फलमनुभवन्ति, यदिवा- कर्मभिः- कृष्यादिभिरार्ताः- तत्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः संवृत्ता इति, तथैते दुर्भगाः। सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रवज्यामभ्युपगता इति // 6 // 17 // एते सद्दे अचायंता, गामेसुणगरेसुवा / तत्थ मंदा विसीयंति, संगामंमिव भीरुया। सूत्रम्॥ ( // 171 // ) अप्पेगे खुधियं भिक्खु, सुणी डंसति लूसए / तत्थ मंदा विसीयंति, तेउपुट्ठाव पाणिणो॥सूत्रम् 8 // ( // 172 / / ) एतान् पूर्वोक्तानाक्रोशरूपान् तथा चौरचारिकादिरूपान् शब्दान् सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः तत्र तस्मिन् आक्रोशे सति मन्दा अज्ञा लघुप्रकृतयो विषीदन्ति विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः संग्रामे रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशः पटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसत्त्वाः संयमे विषीदन्ति // 7 // 171 // वधपरीषहमधिकृत्याह- अप्पेगे। // 148 // 0 क्षीयते मुखलावण्यं वाचा गिलति (घूर्णति) कण्ठमध्ये। कहकहकहित हृदयं देहीति परं भणतः॥१॥ जुज्झितं प्र० झुज्झियं चू० / क्षफथघरू (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy