SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 147 / / दुःसहता वा युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं शिक्षकः अभिनवप्रव्रजितः परीषहै: अस्पृष्टः अच्छुप्तः किं प्रव्रज्यायां दुष्करमित्येवं श्रुतस्कन्धः 1 गर्जन भिक्षाचर्यायां भिक्षाटने अकोविदः अनिपुणः, उपलक्षणार्थत्वादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितत्वादप्रवीणः, स तृतीयमध्ययन उपसर्गपरिज्ञा, एवम्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव रूक्षं संयमं कर्मसंश्लेषकारणाभावात् न सेवते न भजत इति, प्रथमोद्देशकः तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ॥३॥१६७॥संयमस्य रूक्षत्वप्रतिपादनायाह- 'जया हेमंते' इत्यादि, सूत्रम् 5-6 यदा कदाचित् हेमन्तमासे पौषादौ शीतं सहिमकणवातं स्पृशति लगति तत्र तस्मिन्नसह्ये शीतस्पर्शे लगति सति एके मन्दा जडा (169-170) परिषहानां गुरुकर्माणो विषीदन्ति दैन्यभावमुपयान्ति राज्यहीना राज्यच्युताः यथा- क्षत्रिया राजान इवेति ॥४॥१६८॥उष्णपरीषहमधिकृत्याह पुढे गिम्हाहितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा।सूत्रम् 5 // 169 // सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा // सूत्रम् 6 // 17 // ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापस्तेन स्पृष्टः छुप्तो व्याप्तः सन् विमनाः विमनस्कः, सुष्ठ पातुमिच्छा पिपासा तां प्राप्तो नितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्रतस्मिन्नुष्णपरीषहोदये मन्दाजडा अशक्ता विषीदन्ति यथा पराभङ्गमुपयान्ति,* दृष्टान्तमाह- मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवं सत्त्वाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति-यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति एवमल्पसत्त्वाश्चारित्रप्रतिपत्तावपि जल्लमलक्लेद // 147 // क्लिन्नगात्रा बहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुस्मरन्ते- व्याकुलितचेतसः संयमानुष्ठानं प्रति विषीदन्ति / / 5 // 169 // साम्प्रतं याञ्चापरीषहमधिकृत्याह- सदा दत्ते इत्यादि, यतीनां सदा सर्वदा
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy