SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 142 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 45-46 उपसर्गनिक्षेपादिः ॥अथ तृतीयमध्ययनं उपसर्गपरिज्ञाख्यम् // ॥तृतीयाध्ययने प्रथमोद्देशकः॥ उक्तं द्वितीयमध्ययनम्, अधुना तृतीयमारभ्यते- अस्य चायमभिसम्बन्धः- इहानन्तरं स्वसमयपरसमयप्ररूपणाऽभिहिता, तथा परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितम्, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुः, ते चोदीर्णाः सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः 'संबुद्धस्सुवसग्गा'इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकार तूत्तरत्र स्वयमेव नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह नि०- उवसगंमि य छक्कं दव्वे चेयणमचेयणं दुविहं / आगंतुगो य पीलाकरो य जो सो उवस्सग्गो॥४५॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाः षोढा, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्योपसर्ग दर्शयति- द्रव्ये द्रव्यविषये उपसर्गो द्वेधा, यतस्तद्रव्यमुपसर्गकर्तृ चेतनाचेतनभेदात् द्विविधम्, तत्र तिर्यमनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति ससचित्तद्रव्योपसर्गः, स एव काष्ठादिनेतरः। 'तत्त्वभेदपर्यायैर्व्याख्ये'ति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः, भेदाश्च तिर्यमनुष्योपसर्गादयः नामादयश्च, तत्त्वव्याख्यांतु नियुक्तिकृदेव गाथापश्चार्द्धन दर्शयति-अपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति // 45 // क्षेत्रोपसर्गमाह नि०-खेत्तं बहुओघपयं कालो एगंतदूसमादीओ। भावे कम्मब्भुदओ, सो दुविहो ओघुवक्कमिओ॥४६॥ // 142 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy