________________ श्रुतस्कन्धः१| द्वितीयमध्ययनं वैतालीयम्, तृतीयोद्देशकः सूत्रम् 21-22 (163-164) वेदनादिः // 140 // श्रीसूत्रकृताङ्गष्याश्च ये भविष्यन्ति, तान् विशिनष्टि- सुव्रताः शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति,ते नियुक्तिश्रीशीला० सर्वेऽप्येतान्- अनन्तरोदितान् गुणान् आहुः अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, ते च काश्यपस्य वृत्तियुतम् ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग श्रुतस्कन्धः 1 इत्यावेदितं भवतीति // 20 // 162 // तदभिहितांश्च गुणानुद्देशत आह तिविहेणवि पाणमा हणे, आयहिते अणियाण संवुडे। एवं सिद्धा अणंतसो, संपइ जे अअणागयावरे॥सूत्रम् 21 // ( // 163 // ) एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे। अरहा नायपुत्ते भगवं वेसालिए वियाहिए।सूत्रम् 22 / / ( // 164 // ) त्तिबेमि // इति श्रीवेयालियं बितीयमज्झयणंसमत्तं // त्रिविधेन मनसा वाचा कायेन यदिवा- कृतकारितानुमतिभिर्वा प्राणिनो दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मने हित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं निदानमस्तीत्यनिदानः,तथेन्द्रियनोइन्द्रियैर्मनोवाक्कायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतदर्शयति- एवं अनन्तरोक्तमार्गानुष्ठानेनान्ताः सिद्धा अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे चानागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः॥ 21 // 163 // एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह- एवं से इत्यादि एवं' उद्देशकत्रयाभिहितनीत्या 'स' ऋषभस्वामी स्वपुत्रानुद्दिश्य उदाहृतवान् प्रतिपादितवान्, नास्योत्तरं- प्रधानमस्तीत्युत्तरं तच्च तज्ज्ञानं 7 वा अना० (मु०)। // 140 / /