________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 137 // लोकंस्थानं गच्छेत्, किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥१३॥१५५॥अपिच-ज्ञानैश्वर्यादिगुणसमन्वितस्य श्रुतस्कन्धः१ भगवतः- सर्वज्ञस्य शासनं- आज्ञामागमं वा श्रुत्वा अधिगम्य तत्र तस्मिन्नागमे तदुक्ते वा संयमे सद्भ्यो हिते सत्ये लघुकर्मा द्वितीयमध्ययन वैतालीयम्, तदुपक्रम-तत्प्राप्त्युपायं कुर्यात्, किम्भूतः?- सर्वत्रापनीतो मत्सरोयेन स तथा सोऽरक्तद्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तृतीयोद्देशकः तथा उछ ति भैक्षं विशुद्धं-द्विचत्वारिंशद्दोषरहितमाहरेत् गृह्णीयादभ्यवहरेद्वेति // 14 // 156 // किञ्च सूत्रम् 15-16 (157-158) सव्वं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए। गुत्ते जुत्ते सदाजए, आयपरे परमायतट्टिते॥१५॥ ( // 157 // ) गृहस्थोऽपि वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्नइ / एते मम तेसुवी अहं, नो ताणं सरणं न विजई // 16 // ( // 158 // ) देवलोकगामी सर्वं एतद्धेयमुपादेयं च ज्ञात्वा सर्वज्ञोक्तं मागं सर्वसंवररूपं अधितिष्ठेत् आश्रयेत्, धर्मेणार्थो धर्म एव वाऽर्थः परमार्थेनान्यस्यानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धर्मार्थी- धर्मप्रयोजनवान्, उपधानं- तपस्तत्र वीर्यं यस्य स तथा अनिगूहितबलवीर्य इत्यर्थः, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः सदा सर्वकालं यतेताऽऽत्मनि परस्मिंश्च। किंविशिष्टः सन्? अत आह- परम- उत्कृष्ट आयतो- दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः- तदभिलाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति // 15 // 157 // पुनरप्युपदेशान्तरमाह- वित्तं धनधान्यहिरण्यादि पशवः करितुरगगोमहिष्यादयो ज्ञातयः स्वजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं बालः अज्ञः शरणं मन्यते, तदेव दर्शयति- ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषु चार्जनपालनसंरक्षणादिना शेषोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थं धनमिच्छन्ति तच्छरीरमशाश्वतमिति,अपिच- रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं। दोण्हपि गमणसीलाण किच्चिरं होज 7 वस्त्रोप० (प्र०)। ॐ भैक्ष्यं (मु०)। 0 माहारं गृह्णी० (मु०)10 ऋद्धिः स्वभावतरला रोगजराभङ्गुरं हतकं शरीरम्। द्वयोरपि गमनशीलयोः कियचिरं . // 137 //