SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 136 // करोति? येनैवमुपदिश्यते, तन्निमित्तमाह-हंदी त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्ठु- अतिशयेन निरुद्धं- आवृतं दर्शनं- श्रुतस्कन्धः 1 सम्यग् अवबोधरूपं यस्य स तथा, केनेत्याह- मोहयतीति मोहनीयं- मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृतेन द्वितीयमध्ययनं| * वैतालीयम्, कर्मणा निरुद्धदर्शनः प्राणी सर्वज्ञोक्तंमागंन श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति // 11 // 153 // पुनरप्युपदेशान्तरमाह- तृतीयोद्देशकः दुःखं- असातवेदनीयमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहे याति-सूत्रम् 13-14 (155-156) सदसद्विवेकविकलो भवति, इदमुक्तं भवति- असातोदयात् दुःखमनुभवन्नार्तो मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसार-गृहस्थोऽपि सागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय निर्विद्येत जुगुप्सयेत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा / देवलोकगामी पूजनं वस्त्रादिलाभरूपं परिहरेत्, एवं अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रव्रजितोऽपरप्राणिभिः सुखार्थिभिः आत्मतुलां आत्मतुल्यतां दुःखाप्रियत्वसुखप्रियत्वरूपामधिकं पश्येत् अधिपश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति // 12 // 154 // किञ्च गारंपिअ आवसे नरे, अणुपुव्वं पाणेहिं संजए।समता सव्वत्थ सुव्वते, देवाणं गच्छे सलोगयं / / सूत्रम् 13 // ( // 155 // ) सोच्चा भगवाणुसासणं, सच्चे तत्थ करेज्जुवक्कम / सव्वत्थऽवणीयमच्छरे, उञ्छंभिक्खुविसुद्धमाहरे॥सूत्रम् 14 / / ( // 156 // ) अगारमपि गृहमप्यावसन्- गृहवासमपि कुर्वन् नरो मनुष्यः 'आनुपूर्व' मिति आनुपूर्व्या- श्रवणधर्मप्रतिपत्त्यादिलक्षणया / प्राणिषु यथाशक्त्या सम्यक् यतः संयतः तदुपमन्निवृत्तः, किमिति? यतः समता समभावः आत्मपरतुल्यता सर्वत्र यतौ। गृहस्थे च यदिवैकेन्द्रियादौ श्रूयते अभिधीयते आर्हते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् देवानां पुरन्दरादीनां 0 मोहं (मु०)। 0 पश्येत्, आत्म० (मु०)। 0 सव्वत्थ विणीय (मु०)। 0 श्रमण० प्र०। // 136 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy