________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 134 // सूत्रम् 9-10 निवासकल्पमित्येवं बुध्यध्वं यूयम्, तथैवम्भूतेऽप्यायुषि नराः पुरुषा लघुप्रकृतयः कामेषुशब्दादिषु विषयेषु गृद्धा अध्युपपन्ना श्रुतस्कन्धः१ द्वितीयमध्ययनं मूर्च्छितास्तत्रैवासक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः॥८॥१५०॥ अपि च / वैतालीयम्, जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं। सूत्रम् // ( // 151 // ) तृतीयोद्देशकः णय संखयमाहुजीवितं, तहवि य बालजणो पगब्भई / पच्चुप्पन्नेण कारियं, को दटुं परलोयमागते? // सूत्रम् 10 // // 152 // ) (151-152) ये केचन महामोहाकुलितचेतसः इह अस्मिन्मनुष्यलोके आरम्भे हिंसादिके सावधानुष्ठानरूपे निश्चयेन श्रिताः- संबद्धा आत्मशासन अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूषका- हिंसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते / असाधोः एवम्भूता गन्तारो यास्यन्ति पापं लोकं पापकर्मकारिणां यो लोको नरकादिः चिररात्रं इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवत्वापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बिषिका देवाधमा भवन्तीत्यर्थः॥ 9 // 151 // किञ्च- न च नैव त्रुटितं जीवितमायुः संस्कर्तुं सन्धातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि- दंडकलियं करिन्ता वचंति हु राइओ य दिवसा य। आउं संवेल्लंता गया य ण पुणो नियत्तंति // 1 // तथाऽपि एवमपि व्यवस्थिते जीवानामायुषि बालजनः अज्ञोलोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् प्रगल्भते धृष्टतां याति, असदनुष्ठानेनापिन लज्जत इत्यर्थः, सचाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तरमाहप्रत्युत्पन्नेन वर्तमानकालभाविना परमार्थसता अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाविद्यमानत्वात् कार्य प्रयोजनम्, प्रेक्षा-8 // 134 // पूर्वकारिभिस्तदेव प्रयोजनसाधकत्वादादीयते, एवंच सतीहलोक एव विद्यते न परलोक इति दर्शयति- कः परलोकं दृष्टेहायातः, (c) दण्डकलितं कुर्वत्त्यो व्रजन्ति रात्रयश्च दिवसाश्च। आयु संवेलयन्त्यः गताश्च पुनर्न निवर्तन्ते // 1 // ॐ कः परलोकं दर्शयति, कः पर० (प्र०)।