SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 130 // संयमात दुःखक्षय: // द्वितीयाध्ययने तृतीयोद्देशकः // श्रुतस्कन्धः 1 उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकान्ते विरता इत्युक्तम्, तेषांक द्वितीयमध्ययन 8 वैतालीयम्, च कदाचित्परीषहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्मणोऽपचयो भवतीति, स च परीषहसहनादेवेत्यत: परीषहाः सोढव्या इत्यने न सम्बन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रम् 1-2 (143-144) सूत्रं संवुडकम्मस्स भिक्खुणो, जंदुक्खं पुढे अबोहिए। तं संजमओऽवचिजई, मरणं हेच्च वयंति पंडिया // सूत्रम् 1 // ( // 143 // ) जे विनवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया। तम्हा उटुंति पासहाँ, अदक्खु कामाइरोगवं। सूत्रम् 2 / / ( // 144 // ) संवृतानि-निरुद्धानि कर्माणि- अनुष्ठानानि सम्यगुपयोगरूपाणिवा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा यस्य भिक्षोः साधोः स तथा तस्य यत् दुःखं असद्वेद्यं तदुपादानभूतं वाऽष्टप्रकारं कर्म स्पष्ट मिति बद्धस्पृष्टनिकाचितमित्यर्थः, तच्चाबोधिना अज्ञानेनोपचितं सत् संयमतो मौनीन्द्रोक्तात् सप्तदशरूपानुष्ठानाद् अपचीयते प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति- यथा तडागोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचीयते, एवं संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संवृतात्मानः सदनुष्ठायिनश्च ते हित्वा त्यक्त्वा मरणं मरणस्वभावमुपलक्षणत्वात् जातिजरामरणशोकादिकं त्यक्त्वा मोक्षं // 130 // व्रजन्ति पण्डिताः सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति // 1 // 143 // येऽपि च तेनैव 0 उद्धं तिरियं अहे तहा इति पा०10 तच्चात्र अबो० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy