________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 129 // श्रुतस्कन्थ:१ द्वितीयमध्ययन वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 31-32 (141-142) ग्रामधर्म विरताः सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् // 4 // तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय। त्यक्त्वा सङ्गमनार्य कार्य सद्भिः सदा श्रेयः॥ ५॥इति // 30 // 140 // एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाह ण हिणूण पुरा अणुस्सुतं, अदुवातंतह णो समुट्ठियं / मुणिणासामाइआहितं , नाएणंजगसव्वदंसिणा॥सूत्रम् 31 // // 141 // ) एवं मंता महंतरं, धम्ममिणं सहिया बहू जणा। गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं // सूत्रम् 32 // // 142 // ) तिबेमि॥ यदेतत् मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रेण सामायिकादि आहितं आख्यातम्, तत् नूनं निश्चितं न हि नैव पुरा पूर्व जन्तुभिः अनुश्रुतं श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितम्, पाठान्तरं वा 'अवितह न्ति अवितथं यथावन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति // 31 // 141 // पुनरप्युपदेशान्तरमधिकृत्याह- एवं उक्तरीत्याऽऽत्महितं सुदुर्लभं मत्वा ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा विवरं ज्ञात्वा, यदिवा 'महंतरंति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञात्वा एनं जैन धर्मं श्रुतचारित्रात्मकम्, सह हितेन वर्तन्त इति सहिता- ज्ञानादियुक्ता वा बहवो जना लघुकर्माणः समाश्रिताः सन्तो गुरोः आचार्यादेस्तीर्थङ्करस्य वा छन्दानुवर्तकाः तदुक्तमार्गानुष्ठायिनो विरताः पापेभ्यः कर्मभ्यः सन्तस्तीर्णा महौघं अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्भिरन्येषाम्, इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 32 // 142 // इति द्वितीयोद्देशकः समाप्तः॥२॥ साधवः // 129 // Oपा० अदुवाऽवितहं णो अणुद्धि एवं मत्ता (मु०)। 0 पुत्रीयेण (मु०) 0 उक्तनीत्या (प्र०)। 7 युक्ता बहवो (मु०)।