________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 128 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 29-30 (139-140) ग्रामधर्मविरताः साधवः माहणे त्ति साधुन कुर्यात्, तेषां कषायाणां यैर्महात्मभिः विवेकः परित्यागः आहितो जनितस्त एव धर्म प्रति प्रणता इति, यदिवा- तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः- प्रथितः प्रसिद्धिं गतस्त एव च धर्मं प्रति प्रणताः यैः महासत्त्वैः सुष्ठु जुष्टं सेवितं धूयतेऽष्टप्रकारं कर्म येन तद्भूतं- संयमानुष्ठानम्, यदिवा- यैः सदनुष्ठायिभिः "सुज्झोसिअंति सुष्टु क्षपितं धूननार्हत्वात् 'धूतं' कर्मेति // 29 // 139 // अपि च-स्निह्यत इति स्निहः, न स्निहः अस्निहः- सर्वत्र ममत्वरहित इत्यर्थः, यदिवा परीषहोपसगैनिहन्यते इति निहः न निहोऽनिहः- उपसर्गरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नास्याघमस्तीत्यनघो, निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः- आत्महितो वा सदनुष्ठानप्रवृत्तेः, तामेव दुर्शयति- सुष्ठु संवृत इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्म:- श्रुतचारित्राख्यस्तेनार्थ:- प्रयोजनं स एव वाऽर्थस्तस्यैव सद्भिरर्यमाणत्वात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधानं- तपस्तत्र वीर्यवान् स एवम्भूतो विहरेत् संयमानुष्ठानं कुर्यात् समाहितेन्द्रियः संयतेन्द्रियः, कुत एवं?- यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन लभ्यते अवाप्यत इति, तथाहि ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥तथाहि - युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम्, अपिच- भूतेषु जङ्गमत्वं तस्मिन् पश्चन्द्रियत्वमुत्कृष्टम्। तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च // 1 // देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा / जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् // 2 // भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् / विज्ञाने सम्यक्त्वं सम्यक्त्वे शीलसंप्राप्तिः, // 3 // एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः. तत्रं च बहु * कर्म तद्भूतं (मु०)। (c) 'सुजोसिअंति सुष्ठु क्षिप्तं (मु०)10 स तदर्थः (प्र०)। 9 न पुन० (मु०)। 7 तथा (प्र०)10 अत्र (प्र०)। // 128 //