SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ वैतालीयम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 125 // ग्रामधर्म साधवः विशिनष्टि- अपराजितो दीव्यन् कुशलत्वादन्येन न जीयते अक्षैः कपर्दकैर्वा- पाशकैः दीव्यन्- क्रीडंस्तत्पातज्ञः कुशलो- श्रुतस्कन्धः१ निपुणः, यथा असौ द्यूतकारोऽक्षः- पाशकैः कपर्दकैर्वा रममाणः कडमेव त्ति चतुष्कमेव गृहीत्वा तल्लब्धजयत्वात् तेनैव द्वितीयमध्ययनं दीव्यति, ततोऽसौ तल्लब्धजयः सन्न कलिं एककं नापि त्रैतं त्रिक नापि द्वापरं द्विकं गृह्णातीति ॥२३॥१३३॥दार्टान्तिकमाह- द्वितीयोद्देशकः यथा द्यूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् लोके मनुष्यलोके तायिना त्रायिणा वा-सर्वज्ञेनोक्तो सूत्रम् 25-26 (135-136) योऽयं धर्मः क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तरः- अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमं चल गृहाण विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति- यथा कश्चित् द्यूतकारः कृतं कृतयुगंचतुष्क- विरताः मित्यर्थः, शेषं एककादि अपहाय त्यक्त्वा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपि शेषं-गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं धर्म गृह्णीयादिति भावः॥ 24 // 134 // पुनरप्युपदेशान्तरमाह उत्तर मणुयाण आहिया, गामधम्मा(म्म) इइ मे अणुस्सुयं / जंसी विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो।सूत्रम् 25 // ( // 135 // ) जे एय चरंति आहियं, नाएणं महया महेसिणा। ते उट्ठिय ते समुट्ठिया, अन्नोन्नं सारंति धम्मओ।सूत्रम् 26 // // 136 // ) / उत्तराः- प्रधानाः दुर्जयत्वात्, केषां?- उपदेशार्हत्वान्मनुष्याणां अन्यथा सर्वेषामेवेति, के ते?- ग्रामधर्माः शब्दादिविषया मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरत्वेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छुतम्, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं // 125 // तन्नाभेयेनाऽऽदितीर्थकृता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः स्वशिष्येभ्यः प्रतिपादयन्ति अतो 0 अक्षैः वा पाशकैः (मु०)। 0 अझै कपर्दकैर्वा पाशकैर्वा (प्र०)10 त्रिकं च (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy