SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 121 // परीषहोपसगैरक्षुभ्यन् समविषमाणिशयनासनादीन्यनुकूलप्रतिकूलानि मुनिः यथावस्थितसंसारस्वभाववेत्ता सम्यग्- अरक्तद्विष्ट- श्रुतस्कन्धः१ तयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका-दंशमशकादयः अथवापि भैरवा भयानका- रक्षःशिवा द्वितीयमध्ययन वैतालीयम्, दयः अथवा तत्र सरीसृपाः स्युः भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति // 14 // 124 // साम्प्रतं त्रिविधोपसर्गाधि-द्वितीयोद्देशकः सहनमधिकृत्याह सूत्रम् 15-16 (125-126) तिरिया मणुयाय दिव्वगा, उवसगा तिविहाऽहियासिया।लोमादीयंण हारिसे, सुन्नागारगओ महामुणी॥सूत्रम् 15 // ( // 125 // ) उपसर्गसरनम् णोअभिकंखेज जीवियं, नोऽविय पूयणपत्थए सिया।अब्भत्थमुवंति भेरवा, सुन्नागारगयस्य भिक्खुणो॥सूत्रम् 16 // ( // 126 / / ) तैरश्चाः सिंहव्याघ्रादिकृताः तथा मानुषा अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा दिवगा इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् अधिसहेत नोपसगैर्विकारं गच्छेत्, तदेव दर्शयति-लोमादिकमपि न हर्षेत् भयेन रोमोद्गममपि न कुर्यात्, यदिवा- एवमुपसर्गास्त्रिविधा अपि अहियासिय'त्ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात्, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थितः, अस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा महामुनिः जिनकल्पिकादिरिति // 15 // 125 // किञ्च-स तैभैरवैरुपसर्गेरुदीर्णैस्तोतुद्यमानोऽपिजीवितं न अभिकाङ्केत, जीवितनिरपेक्षेणोपसर्गाः सोढव्या इति भावः, न चोपसर्गसहनद्वारेण पूजाप्रार्थकः प्रकर्षा-2 भिलाषी स्यात् भवेत्, एवं चजीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाना भैरवा- भयानकाः शिवापिशाचादयाऽभ्यस्तभावं स्वात्मतां उप- सामीप्येन यान्ति- गच्छन्ति, तत्सहनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता (r) आवभिकंखे (प्र०)। 0 व्यवस्थितस्य चोप० (मु०)10 सर्गः सोढव्यः (मु०)। 0 माणा (मु०)। // 121 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy