________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 120 // श्रुतस्कन्धः१ द्वितीयमध्ययन वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 13-14 (123-124) उपसर्गासरनम् 11 // 121 / एकः असहायो द्रव्यत एकल्लविहारी भावतो रागद्वेषरहितश्चरेत्, तथा स्थानं कायोत्सर्गादिकं एक एव कुर्यात्, तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत्, एवं शयनेऽप्येकाक्येव समाहितः धर्मादिध्यानयुक्तः स्यात् भवेत्, एतदुक्तं भवति- सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासुरागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं- तपस्तत्र वीर्यं यस्य स उपधानवीर्यः- तपस्यनिगूहितबलवीर्य इत्यर्थः, तथा वाग्गुप्तः सुपर्यालोचिताभिधायी अध्यात्म मनस्तेन संवृतो भिक्षुर्भवेदिति // 12 // 122 / / किञ्च णो पीहे ण यावपंगुणे, दारं सुन्नघरस्स संजए। पुढे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं // सूत्रम् 13 // ( // 123 // ) जत्थऽत्थमिए अणाउले, समविसमाई मुणीऽहियासए। चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया॥सूत्रम् 14 // ( // 124 // ) केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुस्तस्य गृहस्य द्वारं कपाटादिना न स्थगयेन्नापितच्चालयेत्, यावत् न यावपंगुणे त्ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं नोदाहरेत् न ब्रूयात्, आभिग्रहिको जिनकल्पिकादिर्निरवद्यामपिन ब्रूयात्, तथा न समुच्छिन्द्यात् तृणानि कचवरं वा प्रमार्जनेन नापनयेत, नापिशयनार्थी कश्चिदाभिग्राहिकः तणादिकं संस्तरेत् तृणैरपि संस्तारकं न कुर्यात्, किं पुनः कम्बलादिना?, अन्यो वा शुषिरतृणं न संस्तरेदिति // 13 // 123 // तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रवन्नक्रादिभिः (r) प्राकृते स्वार्थे ल्लप्रत्ययागमे एकल्ल इति जाते प्रसिद्धत्वादनुकरणमेतत्॥ 0 प्राक्तनोऽपिः शयनादिसमुच्चयाय अयं तूर्ध्वस्थानादिसमुच्चयाय। 0 णाववंगुणे, नावपंगुणे (प्र०)। 0 मार्गादिकं वा (प्र०)। 7 च (मु०)। // 120 //