SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ धर्मकथकस्वरूप: बहून् जनान् आत्मानं प्रति नामयति- प्रवीकरोति तैर्वा नम्यते-स्तूयते बहुजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मीया- श्रुतस्कन्धः१ शयेन यथाऽभ्युपगमप्रशंसया स्तूयते- प्रशस्यते, कथं?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः, कदाचिदसौचतुर्विध द्वितीयमध्ययन वैतालीयम्, बुद्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाचक्रे, तत्र कदाचिदेवम्भूता कथाऽभूत्, तद्यथा- इह लोके धार्मिकाः बहवः उताधार्मिका इति?, तत्र समस्तपर्षदाऽभिहितं- यथाऽत्राधार्मिका बहवो लोका धर्मं तु . सूत्रम् 5-8 (115-118) शतानामपि मध्ये कश्चिदेवैको विधत्ते, तदाकाभयकुमारेणोक्तं- यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा क्रियताम्, पर्षदाऽप्यभिहितं- एवमस्तु, ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितम्, घोषितं च डिण्डिमेन नगरे, यथा- यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः? इत्येवं पृष्टः कश्चिदाचष्टे- यथाऽहं कर्षकः अनेक-8 शकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्त्वाह- यथाऽहं ब्राह्मणः षट्कर्माभिरतस्तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति- यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्त्विदमाह- यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्येव तावत्, श्वपाकोऽपीदमाह- यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मन्निश्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासाद श्रावकद्वयं प्रविष्टम्, तच्च किमधर्माचरणं // 116 // भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत्, तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीत 7 तावत्, यावत् श्वपाको (प्र०)। (c) आधारस्यापि कर्मत्वविवक्षया, गत्यर्थत्वेन विशः कर्तरि क्त इति न प्रथमाशङ्का /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy