SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 112 // च्छीतीभूत इत्यर्थः, तथा प्रणताः प्रह्वीभूतः वीराः कर्मविदारणसमर्थाः महावीथिं महामार्गम्, तमेव विशिनष्टि- सिद्धिपथं ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति नेतारं प्रापकं ध्रुवं अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति // 21 // 109 // पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाह-वेयालियमग्ग मित्यादि,कर्मणा विदारणमार्गमागतो भूत्वा तं तथाभूतं मनोवाक्कायसंवृतः पुनः त्यक्त्वा परित्यज्य वित्तं द्रव्यं तथा ज्ञातींश्च स्वजनांश्च तथा सावद्यारम्भं च सुष्ठ संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् // 22 // 110 // इति प्रथमोद्देशकः समाप्तः॥ श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 1-2 (111-112) नियुक्तिः 43-44 मदपरित्यागः D ॥द्वितीयाध्ययने द्वितीयोद्देशकः॥ प्रथमानन्तरं द्वितीयः समारभ्यते- अस्य चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहापिसैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सह सम्बन्धोऽयं-अनन्तरोक्तसूत्रे बाह्यद्रव्यस्वजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रं तयसंव जहाइ से रयं, इति संखाय मुणीण मज्जई। गोयन्नतरेण माहणे, अहसेयकरी अनेसी इंखिणी॥ सूत्रम् 1 // ( // 111 / / ) जो परिभवइ परंजणं, संसारे परिवत्तई महं / अदु इंखिणिया उपाविया, इति संखाय मुणीण मज्जई।सूत्रम् 2 // ( // 112 // ) यथा झुरंग: स्वां त्वचं अवश्यं परित्यागार्हत्वात् जहाति परित्यजति, एवमसावपि साधुः रज इव रजः- अष्टप्रकारं कर्म तदकषायित्वेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस्य कारणमिति संख्याय ज्ञात्वा मुनिः कालत्रयवेदी न माद्यति ७०छान्तीभूत (मु०)। 7 मग्ग' इत्यादि (मु०)। 0 भूत्वा तं तथा मनो० (प्र०)। 0 नेसि। 7 चिरं पा०। 9 यथा उरगः (मु०)। // 112 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy