________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 108 // उपधानवान् परीषहोपसर्गाएतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः लुप्ये पीड्ये अपि त्वन्येऽपि प्राणिनः श्रुतस्कन्धः 1 द्वितीयमध्ययन तथाविधास्तिर्यमनुष्याः अस्मिंल्लोके लुप्यन्ते अतिदुःसहैर्दुःखैःपरिताप्यन्ते, तेषांचसम्यग्विवेकाभावान्न निर्जराख्यफलमस्ति, द्वित वैतालीयम्, यतः- क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः / ध्यातं वित्तमहर्निशं नियमित द्वन्द्वैर्न तत्त्वं परं, तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वञ्चिताः॥१॥ तदेवं क्लेशादिसहनं सद्विवेकिनां संयमाभ्युपगमे सति सूत्रम् 13-14 (101-102) गुणायैवेति, तथाहि- काय क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले। एतान्येव गृहे वहन्त्यवनतिं तान्युन्नतिं संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः॥१॥ एवं सहितो ज्ञानादिभिः स्वहितो वा कर्मक्षपक: आत्महितः सन् पश्येत् कुशाग्रीयया बुद्ध्या पर्यालोचयेदनन्तरोदितम्, तथा निहन्यत इति निहः न निहोऽनिहः- क्रोधादिभिरपीडितः सन् स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् अधिसहेत मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वाऽनिगूहितबलवीर्यः, शेषं पूर्ववदिति ॥१३॥१०१॥अपिच धुणिया इत्यादि 'धूत्वा' विधूय कुलियंकडणकृतं कुड्यं लेपवत् सलेपम्, अयमत्रार्थः- यथा कुड्यं गोमयादिलेपेन सलेपं जाघट्यमानं लेपापगमात् कृशं भवति, एवं अनशनादिभिर्देह कर्शयेत् अपचितमांसशोणितं विदध्यात्, तदपचयाच्च कर्मणोऽप्यपचयों भवतीति भावः, तथा विविधा हिंसा विहिंसान विहिंसा अवहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः, अनुगतो-मोक्षप्रत्यनुकूलोधर्मोऽनुधर्मः | असावहिंसादिलक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो मुनिना सर्वज्ञेन प्रवेदितः कथित इति // 14 // 102 // किञ्च। ७०वान्न तद् निर्ज० (प्र०)। 0 दुःसहशीतताप० (प्र०)। 0 नियमितैर्द्वन्द्वं न तत्त्वं (प्र०)। 0 अधिकं पृथम्जनान् पश्यतीति चू। ७०णोऽपच० (प्र०)। 0 वहिंसालक्षण० (मु०)। // 108 //