________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 105 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, प्रथमोद्देशकः सूत्रम् 7-8 (95-96) दुर्लभा सुगतिः दर्शयति- यथा तालफलं बन्धनात् वृन्तात् च्युतं अत्राणमवश्यं पतति, एवमसावपि स्वायुषः क्षये त्रुट्यति जीवितात् च्यवत इति // 6 // 94 // अपिच__ जेयावि बहुस्सुए सिया, धम्मिय माहणभिक्खुए सिया।अभिणूमकडेहिं मुच्छिए, तिव्वं ते कम्मेहिं किच्चती॥सूत्रम् 7 // // 95 // ) अह पास विवेगमुट्ठिए, अवितिन्ने इह भासई धुवं / णाहिसि आरंकओ परं, वेहासे कम्मेहिं किच्चती॥ सूत्रम् 8 // ( // 96 // ) ये चापि बहुश्रुताः शास्त्रार्थपारगाः तथा धार्मिका धर्माचरणशीलाः, तथा ब्राह्मणाः तथा भिक्षुका भिक्षाटनशीलाः स्युः भवेयुः,तेऽप्याभिमुख्येन णूम न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः मूञ्छिताः गृद्धाः तीव्र अत्यर्थम्, अत्र च छान्दसत्वाद्बहुवचनं द्रष्टव्यम्, ते एवंभूताः कर्मभिरसद्वद्यादिभिः कृत्यन्ते छिद्यन्ते पीड्यन्त इतियावत् ॥७॥१५॥साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयत्वात् सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह- अथे त्यधिकारान्तरे बह्वादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च पश्य कश्चित्तीर्थिको विवेकंपरित्यागंपरिग्रहस्य परिज्ञानं वा संसारस्याऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, सच सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रम्, केवलं इह संसारे प्रस्तावे वा शाश्वतत्वात् ध्रुवो मोक्षस्तं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गप्रपन्नस्त्वमपि कथं ज्ञास्यसि आरं इहभवं कुतो वा परं परलोकं यदिवा-आरमिति गृहस्थत्वम्, परमिति प्रव्रज्यापर्यायम्, अथवा- आरमिति संसारंपरमिति मोक्षम् , एवम्भूतश्चान्योऽप्युभय। भ्रष्टः, वेहासि त्ति अन्तराले उभयभावयोः स्वकृतैः कर्मभिः कृत्यते पीड्यत इति // 8 // 96 // ननु च तीर्थका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाश्च, तत्कथं तेषां न मोक्षावाप्तिरित्येतदाशङ्कयाह (r) कर्मभिः सद्वे० (मु०)। समुद्रं तितीर्घः केवल (मु०)। 0 तन्मार्गे प्रपन्न० (मु०)10 उभयाभावतः (मु०) उभयभवयोः (प्र०)। 9 नो (मु०)। // 105 //