________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 104 // | श्रुतस्कन्धः१ | द्वितीयमध्ययन वैतालीयम्, प्रथमोद्देशकः सूत्रम् 5-6 (93-94) दुर्लभा सुगतिः नईश्वराद्यापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहते- उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च तस्य अशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टः अच्छुप्तो मुच्यते जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः॥४॥९२॥ अधुना सर्वस्थानानित्यतां दर्शयितुमाह देवा गंधव्वरक्खसा, असुरा भूमिचरा सरिसिवा / राया नरसेट्ठिमाहणा, ठाणा तेऽवि चयंति दुक्खिया॥सूत्रम् 5 // 93 // कामेहिण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताहे जह बंधणचुए, एवं आउखयंमि तुट्टती।सूत्रम् 6 // 94 // 8 देवा- ज्योतिष्कसौधर्माद्याः,गन्धर्वराक्षसयोरुपलक्षणार्थत्वादष्टप्रकारा व्यन्तरागृह्यन्ते, तथा असुरा दशप्रकारा भवनपतयः, ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यञ्चः, तथा राजानः चक्रवर्तिनो बलदेववासुदेवप्रभृतयः, तथा नराः सामान्यमनुष्याः श्रेष्ठिनः पुरमहत्तराः ब्राह्मणाश्चैते सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः- सर्वेषामपि प्राणिनां प्राणपरित्यागे महदुःखं समुत्पद्यत इति // 5 // 93 // किञ्च-कामेहीत्यादि, कामैः इच्छामदनरूपैस्तथा संस्तवैः पूर्वापरभूतैः गृद्धा अध्युपपन्नाः सन्तः कम्मसह त्ति कर्मविपाकसहिष्णवः कालेन कर्मविपाककालेन जन्तवः प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोविषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलम्, न पुनरुपशमावाप्तिः, तथाहि- उपभोगोपायपरोवाञ्छति यः शमयितुं विषयतृष्णाम्। धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् // 1 // नच तस्य मुमूर्षोः कामैः संस्तवैश्च त्राणमस्तीति ®कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातम्, परं 'यन्तिा औपच्छन्दसकं' इति लक्षणं संगच्छते इति न क्षतिः, तस्यापि वैतालीयप्रकरणगतत्वान्न प्राक्प्रतिज्ञाविरोधः, एवमन्यत्रापि विकल्पसमाहतेः सर्वजातियसांकर्याभ्युपगमे च नाद्यपादमात्रस्य तथात्वे क्षतिः। लक्षणत्वाद० (मु०)® कामेहि'इ (मु०)। // 104 //