________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 11 // श्रुतस्कन्ध:१ द्वितीयमध्ययन वैतालीयम्, प्रथमोद्देशकः नियुक्तिः |40-41 दुर्लभो कथितं प्रतिपादितम्, तेऽप्येतच्छ्रुत्वा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निःसारतांच ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाजैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति / अत्र उद्देसे निद्देसे य' इत्यादिः सर्वोऽप्युपोद्धातो भणनीयः॥३९॥ साम्प्रतं उद्देशार्थाधिकारं प्रागुल्लिङ्गितं दर्शयितुमाह नि०- पढमे संबोहो अनिच्चया य बीयंमि माणवज्जणया। अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ // 40 // नि०- उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ। वजेयव्वोय सया सुहप्पमाओ जइजणेणं // 41 // तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्ययमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविध: शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारो भणित इति, 40 // तृतीयोद्देशके अज्ञानोपचितस्य कर्मणोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति // 41 ॥साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्,तच्चेदं संबुज्झह किं न बुज्झह?, संबोही खलु पेच्च दुल्लहा। णो हूवणमंति राइओ, नो सुलभं पुणरावि जीवियं / / सूत्रम् 1 // ( // 89 // ) / डहरा बुड्डा य पासह गब्भत्था वि चयंति माणवा। सेणे जह वट्टयं हरे एवं आउखयंमि तुट्टई / / सूत्रम् 2 // // 90 // ) तत्र भगवानादितीर्थकरोभरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा-सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच यथा-सम्बुध्यध्वं यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म तत्रापि कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिःसर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्त्यवष्टम्भेनाह-किंन संबुध्यध्व मिति, (r) प्रागुल्लिखितं (मु०)। 0 विधं (मु०)।® सम्बुध्यत्वं (मु०)। र्थाधिकारः सूत्रम् 1-2 (89-90) दुर्लभो बोधि: // 101 //