SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 100 // विदारणीयं तु नामस्थापने अनाहत्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति / / 37 / साम्प्रतं 'वेतालिय' मित्येतस्य निरुक्तं श्रुतस्कन्धः१ दर्शयितुमाह द्वितीयमध्ययन वैतालीयम्, नि०-वेयालियं इह देसियंति वेयालियं तओ होइ। वेयालियंतहा वित्तमत्थि तेणेव य णिबद्धं // 38 // प्रथमोद्देशकः इहाध्ययनेऽनेकधा कर्मणा विदारणमभिहितमितिकृत्वैतदध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्य- नियुक्तिः 38-39 ध्ययननाम, अत्रापि प्रवृत्तेनिमित्तं- वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालियम्, वैतालीयतस्य चेदं लक्षणं-"वैतालीयं लगनैधनाः षडयुक्पादेऽष्टौ समे च लः। न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः॥१॥॥ निरुक्तिः ३८॥साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाह - नि०- कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं / अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया // 39 // __ कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्पन्नदिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्त्तिनोपद्रुतैरष्टानवतिभिः पुत्रैः पृष्टेन यथा भरतोऽस्मानाज्ञां कारयत्यतः किमस्माभिर्विधेयमित्यतस्तेषामगारदाहकदृष्टान्तं प्रदर्श्य न कथञ्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं - 0 प्रवृत्तौ निमित्तं (मु०)। 0 ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षट् संतत ला न समः परेण गो वैतालीयम् (छन्दोऽनुशासने अ०३-५३) तद्वैतालीयं छन्दः . यत्र रगणलघुगुरुप्रान्ताः प्रथमतृतीययोः षट् द्वितीयचतुर्थयोरष्टौ मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतश्चाविषमपादयोः षट् ला निरन्तरा नेति वैतालीयार्थः। // 100 // यद्यपि विंशत्याद्येति वचनात्स्यादत्र स्त्रीत्वमेकचनान्वितं तथापि प्रतिपुत्रं प्रश्नोत्तरपार्थक्यविवक्षयाऽत्र बहुत्वम् / चैत्रमैत्राभ्यामेकविंशती दत्तमितिवत्। नापहतरष्ट० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy