SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 99 // ॥अथ द्वितीयमध्ययनं वैतालीयाख्यम्॥ श्रुतस्कन्धः 1 ॥द्वितीयाध्ययने प्रथमोद्देशकः॥ द्वितीयमध्ययनं वैतालीयम्, उक्तं समयाख्यं प्रथममध्ययनम्, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने प्रथमोद्देशकः स्वसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन सम्बन्धेनाऽयातस्या- नियुक्ति: 36 विदार्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार दिनिक्षेपाः उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'णाऊण बुज्झणाचेवें' त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति,नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह नि०-वेयालियंमि वेयालगो य वेयालणं वियालणियं / तिन्निवि चउक्कगाई विलालओ एत्थ पुण जीवो॥३६॥ तत्र प्राकृतशैल्या वेयालियमिति 'हविदारणे' इत्यस्य धातोर्विपूर्वस्य छान्दसत्वात् भावे ण्वुल्प्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्त्रयं सन्निहितम्, तद्यथा-कर्ता करणं कर्म चेति, अतस्तद्दर्शयति- विदारको विदारणं विदारणीयं च, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाच्चतुर्द्धा निक्षेपेण त्रीणि चतुष्ककानि / द्रष्टव्यानि, अत्र च नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः साधुरिति // 36 // करणमधिकृत्याऽह // 99 // नि०- दव्वं च परसुमादी दंसणणाणतवसंजमा भावे। दव्वं च दारुगादी भावे कम्मं वियालणियं // 37 // नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणेसामर्थ्यमित्युक्तं भवति,
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy