________________ श्रीसूत्रकृताङ्ग प्रसिद्धंक्रममुल्लङ्गन्यादौमानस्योपन्यास इति?,अत्रोच्यते,माने सत्यवश्यंभावी क्रोधः, क्रोधेतु मानः स्याद्वान वेत्यस्यार्थस्य नियुक्तिश्रीशीला० प्रदर्शनायान्यथाक्रमकरणमिति // 12 // 87 // तदेवं मूलगुणानुत्तरगुणाँश्चोपदाधुना सर्वोपसंहारार्थमाह- तुरवधारणे, वृत्तियुतम् पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपञ्चमहाव्रतोपेतत्वात्पञ्चप्रकारसंवरसंवृतः, तथा मनोवाक्कायगुप्तिश्रुतस्कन्धः१ गुप्तः,तथागृहपाशादिषु सिता- बद्धाः अवसक्ता गृहस्थास्तेष्वसितः- अनवबद्धस्तेषु मूर्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्म॥ 98 // लणाऽदिह्यमानो भिक्षुः-भिक्षणशीलोभावभिक्षुः आमोक्षाय अशेषकर्मापगमलक्षणमोक्षार्थं परिसमन्तात् व्रजेः-संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति / गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः सव्वेसिपि नयाणं बहुविधवत्तव्वयं निसामित्ता / तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहू॥१॥॥१३॥८८॥ इति चतुर्थोद्देशकः समाप्तः॥ प्रथममध्ययनं समाप्तम्॥ श्रुतस्कन्धः१ प्रथममध्ययन समय:, चतुर्थोद्देशकः सूत्रम् 11-13 (86-88) मूलोत्तरगुणपालनं // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ प्रथममध्ययनं समयाख्यं समाप्तमिति / / // 98 // (c) सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य / तत्सर्वनयविशुद्धं यच्चरणगुण (क्रियाज्ञान) स्थितः साधुः॥१॥