SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 95 // (84-85) माक्षाय यतिः न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि-तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, श्रुतस्कन्धः 1 यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या)शया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात्, तस्मात्सर्वज्ञत्व प्रथममध्ययन मेष्टव्यम् / तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानाती'त्येतदपि सर्वजनसमानत्वेन यत्किञ्चिदिति / यदपिच कैश्चि-चतुर्थीद्देशकः दुच्यते- यथा ब्रह्मणःस्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते / न चात्यन्तं सर्वजगत उत्पादविनाशौ विद्येते 'न कदाचिदनीदृशं जगदिति वचनात् / तदेवमनन्तादिकं लोकवाद परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्म-8 परिणत्याऽस्त्यसौ पर्यायः अंजू इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽप्नुवन्ति, न पुनर्यो यादृगिह स ताहगेवामुत्रापि भवतीत्ययं नियम इति // 8 // 83 // अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽह उरालं जगतो जोग, विवज्जासंपलिंति य / सव्वे अक्कंतदुक्खा य, अओसव्वे अहिंसिता ॥सूत्रम् 9 // ( // 84 // ) एयं खुनाणिणोसारं, जन्न हिंसइ किंचण / अहिंसासमयं चेव, एतावन्तं वियाणिया॥सूत्रम् 10 // ( // 85 // ) उराल मिति स्थूलमुदारं जगत औदारिकजन्तुग्रामस्य योग व्यापार चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि। जन्तवःप्राक्तनादवस्थाविशेषाद्र्भकललार्बुदरूपा विपर्यासभूतं बाल कुमारयौवनादिकमुदारं योगंपरि-समन्तादयन्ते गच्छन्ति / पर्ययन्ते, एतदुक्तं भवति- औदारिकशरीरिणो हि मनुष्यादेबलकुमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा समानत्वे य० (मु०)। 9 कौमा० (मु०)। // 95 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy