________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 91 // सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूर्छावन्तः सपरिग्रहाः, तथा सहारम्भेण श्रुतस्कन्धः१ जीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजित्वात्सारम्भाः- तीर्थिकादयः, सपरिग्रहसारम्भ प्रथममध्ययनं समयः, त्वेनैव च ते मोक्षमार्ग प्रसाधयन्तीति दर्शयति- इह परलोकचिन्तायां एकेषां केषाश्चिद् आख्यातं भाषितम्, यथा किमनया चतुर्थोद्देशकः शिरस्तुण्डमुण्डनादिकया क्रियया?, परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं सूत्रम् 3-4 भाषमाणास्ते न त्राणाय भवन्तीति / ये पुनः त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति- अपरिग्रहाः न विद्यते धर्मोपकरणाहते (78-79) कृत्योपदेशवि० शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेऽनारम्भाः, ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान् भिक्षुः भिक्षणशील उद्देशिकाद्यपरिभोजी त्राणं शरणं / परिः-समन्ताद्जेद्- गच्छेदिति // 3 // 78 // कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थं ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु परकृतपरनिष्ठितेष्वित्यर्थः, अनेन च षोडशोद्गमदोषपरिहारः सूचितः, तदेवमुद्गमदोषरहितं ग्रस्यत इति ग्रासः- आहारस्तमेवंभूतं अन्वेषयेत् मृगयेत् याचेतेत्यर्थः, तथा विद्वान् / संयमकरणैकनिपुणः परैराशंसादोषरहितैर्यन्निःश्रेयसबुद्ध्या दत्तमिति, अनेन षोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोषरहिते आहारे स भिक्षुः एषणां ग्रहणैषणां चरेद् अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परिगृहीता इति मन्तव्यम्, तथा अगृद्धः अनध्युपपन्नोऽमूर्च्छितस्तस्मिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च ग्रासैषणादोषाः // 91 // पञ्च निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं- परावमदर्शित्वं परिवर्जयेत् परित्यजेत्, न तपोमदं ज्ञानमदं च (r) प्रमर्दकारिणा (प्र०)। 0 सारम्भकत्वे० (मु०)। 0 च मोक्ष० (मु०)। 0 परगुरो (प्र०)। 7 ये तु त्रातुं (मु०)। 0 परकृतेषु (मु०)।