SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 89 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, चतुर्थोद्देशकः सूत्रम् 1-2 (76-77) यापको मुनिः वक्तव्यतोक्तेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशके तीथिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं एते जिया भो! न सरणं, बाला पंडियमाणिणो। हिच्चा णं पुव्वसंजोगं, सिया किच्चोवएसगा। सूत्रम् 1 // ( // 76 // ) तंच भिक्खूपरिन्नाय, वियं तेसुण मुच्छए। अणुक्कस्से अप्पलीणे, मज्झेण मुणि जावए ।सूत्रम् 2 // ( // 77 // ) / अस्य चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं- 'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति? यत एते जिताः परीषहोपसर्गः, परम्परसूत्रसम्बन्धस्त्वयं- आदाविदमभिहितं 'बुध्येत त्रोटयेच्च ततश्चैतदपि बुध्येतयथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गः कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यैरपि सूत्रः सम्बन्ध उत्प्रेक्ष्यः / तदेवं कृतसम्बन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते- एत इति पञ्चभूतैकात्मतज्जीव-8 तच्छरीरवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाश्च जिता अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाज्ञानेन च भोइति विनेयामन्त्रणम्, एवं त्वं गृहाण यथैते तीर्थिका असम्यगुपदेशप्रवृत्तत्वान्नकस्यचिच्छरणं भवितुमर्हन्ति न कश्चित्त्रातुं समर्था इत्यर्थः, किमित्येवं?, यतस्ते बालाइव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद्यत्किचनकारिणो भाषिणश्च, तथैतेऽपिस्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपिच सन्तः पण्डितमानिन इति, क्वचित्पाठो 'जत्थ बालेऽवसीयई'त्ति यत्र' अज्ञाने 'बाल' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्तेन कस्यचित्राणायेति।। यच्चतैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति- हित्वात्यक्त्वा, णमिति वाक्यालङ्कारे, पूर्वसंयोगोधनधान्यस्वजनादिभिः संयोगस्तं 0 जत्थ बालेऽवसीयइ (प्र०)। (c) रादिवादिनः (मु०)। // 89 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy