________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 87 // भवावतार: वेदान्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानात्सिद्धिमुक्तवन्त इत्येवमन्येऽपि यथास्वस्व दर्शनैर्मोक्षमार्ग प्रतिपादयन्तीति, श्रुतस्कन्धः१ अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिप्राप्तेरधस्तात्-प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैवजन्मन्यस्मदीयदर्शनोक्तानु- प्रथममध्ययनं ष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति आत्मवशे वर्तितुं शीलमस्येति वशवर्ती- वश्येन्द्रिय इत्युक्तं भवति, न तृतीयोद्देशकः ह्यसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा- अभिलाषा समर्पिता:- संपन्ना यस्य स सर्वकामसमर्पितो, यान् यान् / सूत्रम् 15-16 (74-75) कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत्, तथाहि- सिद्धेरारादष्टगुणैश्वर्यलक्षणा 'सिद्धिर्भवति' तद्यथा- अणिमा क्रीडया लघिमा महिमा प्राकाम्यमीशित्वं प्रतिघातित्वं यत्र कामावसायित्वमिति // 14 // 73 // तदेवमिहैवास्मदुक्तानुष्ठायिनोऽष्ट-2 गुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह सिद्धा य ते अरोगा य, इहमेगेसिमाहियं। सिद्धिमेव पुरो काउं, सासए गढिआ नरा॥ सूत्रम् 15 // ( // 74 // ) असंवुडा अणादीयं, भमिहिंति पुणो पुणो। कप्पकालमुवखंति, ठाणा आसुरकिब्बिसिया॥सूत्रम् 16 // // 75 // ) इति बेमि इति प्रथमाध्ययने तृतीयोद्देशकः॥गाथाग्रं०७५।। ये ह्यस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागं कृत्वा सिद्धाश्च अशेषद्वन्द्वरहिता अरोगाश्च भवन्ति, अरोगग्रहणंचोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवं इह अस्मिन् लोके सिद्धिविचारे वा एकेषां शैवादीनामिदं आख्यातं भाषितम्, ते च शैवादयः सिद्धिमेव // 87 // पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य स्वकीये आशये स्वदर्शनाभ्युपगमे ग्रथिताः संबद्धा अध्युपपन्नास्तदनुकूला युक्तिः प्रतिपादयन्ति, (r) यथास्वं दर्शनान्मोक्ष० (मु०)। 7 वशेन्द्रिय (मु०)। (c) अर्पिताः (मु०)। 0 सिद्धिर्भविष्यतीति (प्र०)। 7 अरोगा भवन्ति (मु०)।