________________ प्रथममध्ययन समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 86 // (72-73) क्रीडया भवावतारः मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्॥१॥ इति // 12 // 71 // अधुनैतदूषयितुमाह |श्रुतस्कन्ध:१ एताणुवीति मेधावी, बंभचेरे ण ते वसे / पुढो पावाउया सव्वे, अक्खायारोसयं सयं॥ सूत्रम् 13 // ( // 72 // ) सएसए उवट्ठाणे, सिद्धिमेवन अन्नहा / अहो इहेव वसवत्ती, सव्वकामसमप्पिए।सूत्रम् 14 // // 73 // ) सूत्रम् 13-14 एतान् पूर्वोक्तान् वादिनोऽनुविचिन्त्य मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा- नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये तदुपलक्षिते वा संयमानुष्ठाने वसेयुः अवतिष्ठेरन्निति, तथाहि- तेषामयमभ्युपगमो यथा / स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यम्, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्ध्यभावः शुद्ध्यभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामवगताशेषयथावस्थितवस्तुस्वतत्त्वानांसमस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणांरागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः?, तद्वशाच्च संसारावतरणमिति?, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् / अपिच-सर्वेऽप्येते प्रावादुकाः स्वकं स्वकं आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारःशोभनत्वेन प्रख्यापयितार इति, नच तत्र विदितवेद्येनास्था विधेयेति // 13 // 72 // पुनरन्यथा कृतवादिमतमुपदर्शयितुमाहते कृतवादिनः शैवैकदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थानं- स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तस्मिन्नेव सिद्धिं अशेषसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो नान्यथा नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहिशैवा दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः, तथाऽन्येऽपि Oरेण (मु०)। 0 ०नुचिन्त्य (मु०)। 0 नामपगता...वस्तुतत्त्वानां (मु०)। 0 ०मित्यर्थः (मु०)। // 86 //