SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 85 // श्रुतस्कन्ध:१ प्रथममध्ययन समय:, सूत्रम् 11-12 (70-71) क्रीडया भवावतारः सुद्धे अपावए आया, इहमेगेसिमाहियं / पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई।सूत्रम् 11 // ( // 70 // ) इह संवुडे मुणी जाए, पच्छा होई अपावए। वियडंबु जहा भुज्जो, नीरयं सरयं तहा।सूत्रम् 12 // // 71 // ) इह अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगते त्रैराशिकसूत्रपरिपाट्या व्यवस्थितानि ते एवं वदन्ति- यथाऽयमात्मा शुद्धो मनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलङ्को मोक्षे अपापको भवति- अपगताशेषकर्मा भवतीत्यर्थः, इदं एकेषां गोशालकमतानुसारिणामाख्यातम्, पुनरसावात्मा शुद्धत्वाकर्मत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव अपराध्यति रजसा श्लिष्यते, इदमुक्तं भवति- तस्य हि स्वशासनपूजामुपलभ्यान्यशासनपराभवंचोपलभ्य क्रीडोत्पद्यते- प्रमोदः संजायते, स्वशासननिकारदर्शनाच्च द्वेषः, ततोऽसौ क्रीडाद्वेषाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयःसंसारेऽवतरति, अस्यां चावस्थायां सकर्मकत्वात्तृतीयराश्यवस्थो भवति // 11 // 70 // किंच- इह अस्मिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य संवृतात्मा- यमनियमरतो जातः सन् पश्चादपापो भवति- अपगताशेषकर्मकलङ्को भवतीति भावः, ततः स्वशासनं प्रज्वाल्य मुक्त्यवस्थो भवति, पुनरपिस्वशासनपूजादर्शनान्निकारोपलब्धेश्वरागद्वेषोदयात्कलुषितान्तरात्मा विकटवद्- उदकवन्नीरजस्कं सद्वातोद्भूतरेणुनिवहसंपृक्तं सरजस्कं-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसाराद्वेगाच्छुद्धाचारावस्थो भूत्वा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम्, उक्तं च- दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् / 7 गतत्रैराशि० (मु०)। 0 ०कर्मकत्व (मु०)। 0 न्यक्कारदर्श० (मु०)। 0 विकटाम्बुवद् (मु०)। ७०वातोद्धत० (मु०)। // 85 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy