________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 84 // सूत्रम् 10 भवावतारः पुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्ग- श्रुतस्कन्धः१ रोवलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्या प्रथममध्ययन समयः, द्रव्यस्वतत्त्वस्यानादिजीवकर्मसंबन्धापादितानानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽत्मलोकान्तोपलक्षितस्य स्वतत्त्वमजानानाः सन्तो मृषा वदन्तीति // 9 // 68 // इदानीमेतेषामेव देवोप्तादिवादिनामज्ञानित्वं प्रसाध्य तत्फलदिदर्शयि-8 क्रीडया षयाऽऽह अमणुनसमुप्पाय, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवर?॥सूत्रम् 10 // // 69 // ) मनोऽनुकूलं मनोज्ञं-शोभनमनुष्ठानं न मनोज्ञममनोज्ञं- असदनुष्ठानं तस्मादुत्पादः- प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम्, एवकारोऽवधारणे, स चैव संबन्धनीयः- अमनोज्ञसमुत्पादमेव दुःखमित्येवं विजानीयात् अवगच्छेत्प्राज्ञः, एतदुक्तं, भवति-स्वकृतासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेर्दुःखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः कथं केन प्रकारेण दुःखस्य संवरं- दुःखप्रतिघातहेतुं ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति, तच्चाजानानाः कथं दुःखोच्छेदाय यतिष्यन्ते?,यत्नवन्तोऽपिच नैव दुःखोच्छेदनमवाप्स्यन्ति, अपितु संसार एव जन्मजरामरणेष्टवियोगाद्यनेकदुःखवाताघ्राता भूयोऽरहट्टघटीन्यायेनाटन्तोऽनन्तमपि कालं संस्थास्यन्ति ॥१०॥६९॥साम्प्रतंप्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाह 0 सतत्त्व० (मु०)। 0 तस्य तत्त्व० (मु०)। न्यायेनाऽनन्तः (मु०)। // 84 //