________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 82 // मात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव विशिष्टः कर्तोपलक्ष्यते नेश्वरः, यदि पुनरीश्वरः स्यात् किं कुम्भकारे- श्रुतस्कन्धः 1 णेति?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते, नन्वेवं दृष्टहानिरदृष्टकल्पना स्यात्, तथा प्रथममध्ययनं | समयः, चोक्तं- शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोहणे। असम्बद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते? // 1 // तदेवं दृष्टकारण- तृतीयोद्देशकः परित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच- देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तद्दृष्टान्त- सूत्रम् 9(68) | वादनिरास: साधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्व्याप्त्यसिद्धर्नानुमानमिति, अनयैव च दिशा स्थित्वा प्रवृत्त्यादिकमपिसाधनमसाधनमायोज्यम्, तुल्ययोगक्षेमत्वादिति / यदपिचोक्तं प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतम्, यतस्तत्प्रधानं किं मूर्तममूर्तं वा?, यद्यमूर्तं न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति, अथ मूर्तं तत्कुतः समुत्पन्नं?, न तावत्स्वतोलोकस्यापि तथोत्पत्तिप्रसङ्गात्, नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनाऽऽस्ते तद्वल्लोकोऽपि किं नेष्यते?, अपिच- सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्कन्दतीत्यतो न प्रधानाल्लोकस्योत्पत्तिरिति, अपिच- अचेतनायाः प्रकृतेः कथं पुरुषार्थं प्रति प्रवृत्तिः? येनाऽऽत्मनो भोगोपपत्त्या | सृष्टिः स्यादिति, प्रकृतेरयंस्वभाव इति चेदेवंतर्हिस्वभाव एव बलीयान् यस्तामपि प्रकृतिं नियमयति, तत एव च लोकोऽप्यस्तु, किमदृष्टप्रधानादिकल्पनयेति?, अथादिग्रहणात्स्वभावस्यापि कारणत्वं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽ // 82 // भ्युपगम्यमानो नः क्षतिमातनोति, तथाहि- स्वो भावः स्वभावः- स्वकीयोत्पत्तिः, सा च पदार्थानामिष्यत एवेति / तथा Oव्यैव दिशा (मु०)। 0 प्रधानान्महदादेरुत्पत्ति० (मु०)।