SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 81 // सन् लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, श्रुतस्कन्धः१ अथासौ देवोऽनादित्वान्नोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, को दोषः? किंच- असावनादिः सन्नित्योऽनित्यो प्रथममध्ययन वा स्यात्?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न कर्तृत्वम्, अथानित्यस्तथा सति स्वत एवोत्पत्त्यनन्तरं तृतीयोद्देशकः विनाशित्वादात्मनोऽपि न त्राणाय, कुतोऽन्यकरणं प्रति तस्य व्यापारचिन्तेति?, तथा किममूर्तो मूर्तिमान् वा? यद्यमूर्तस्तदा- सूत्रम् 9 (68) वादनिरास: sऽकाशवदकतॆव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृत्वमिति / देवगुप्तदेवपुत्रपक्षौ त्वतिफल्गुत्वादपकर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यम्, तुल्ययोगक्षेमत्वादिति / तथा यदुक्तं'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकम्, कार्यत्वाद्, घटादिवदिति' तदयुक्तं तथाविधविशिष्टकारणपूर्वकत्वेन व्याप्त्यसिद्धेः, कारणपूर्वकत्वमात्रेण तु कार्यं व्याप्तम्, कार्यविशेषोपलब्धौ कारणविशेषप्रतिप्रत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेत्, युक्तं तत्र घटस्य कार्यविशेषत्वप्रतिपत्तेः, न त्वेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तम्, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तुस्यात् मृद्विकारत्वाद्वल्मीकस्यापि घटवत्कुम्भकारकृतिः। स्यात्, तथा चोक्तं-अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् / घटादेःकरणात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः॥१॥ इति, तदेवं // 81 // यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन संबन्धो गृहीतस्तद्दर्शनमेव तथाविधकारणानुमापकं भवति न संस्थान (c) कुतोऽन्यत्करणं (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy