________________ समयः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 80 // संसारस्तदा ब्रह्माऽप्स्वण्डमसृजत्, तस्माच्च क्रमेण वृद्धात्पश्चाविधाभावमुपगतादूर्वाधोविभागोऽभूत्, तन्मध्ये च सर्वाः प्रकृत- श्रुतस्कन्धः१ योऽभूवन्, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतनगराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तं-आसीदिदं तमोभूतम प्रथममध्ययन प्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ एवंभूते चास्मिन् जगति असौ बह्मा, तस्य भावस्तत्त्वं- पदार्थजातं तृतीयोद्देशकः तदण्डादिप्रक्रमेण अकार्षीत् कृतवानिति / ते च ब्राह्मणादयः परमार्थमजानानाः सन्त एवं वदन्तो मृषा वदन्ति- अन्यथा च / वादनिरास: स्थितं तत्त्वमन्यथा प्रतिपादयन्तीत्यर्थः // 8 // 67 // अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह सएहिं परियाएहि, लोयं बूया कडेति य / तत्तं ते ण विजाणंति, ण विणासी कयाइवि।सूत्रम् 9 // // 68 // ) स्वकैः स्वकीयैः पर्यायैः अभिप्रायैयुक्तिविशेषैः अयं लोकः कृत इत्येवं अब्रुवन् अभिहितवन्तः, तद्यथा- देवोप्तो ब्रह्मोप्त / ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तन्निष्पादितमायया म्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभिरुपपत्तिभिः प्रतिपादयन्ति- यथाऽस्मदुक्तमेव सत्यं नान्यदिति, ते चैवंवादिनो वादिनः सर्वेऽपि तत्त्वं परमार्थं यथावस्थितलोकस्वभावं न जानन्ति न सम्यक् विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन, न चायमादित आरभ्य केनचित् क्रियते, अपि त्वयं लोकोऽभूद्भवति भविष्यति च, तथाहि- यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' इति, तदसंगतम्, यतो देवोप्तत्वे लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वज्जनमनांसि प्रीणयति, अपिच-किमसौदेव उत्पन्नोऽनुत्पन्नोवा लोकं सृजेत्?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः // 80 // सृजेत्तत्किं स्वतोऽन्यतो वा?, यदि स्वत एवोत्पन्नस्तथा सति तद्वल्लोकस्यापि स्वत एवोत्पत्तिः किं नेष्यते?, अथान्यत उत्पन्नः। O०पर्वतमकरा० (मु०)। 0 सन्तो मृषा वदन्त एवं वदन्ति (मु०)। 0 नाभि (न वि) जानन्ति (मु०)। सति तल्लोकस्या० (मु०)।