________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 78 // पराज्ञाभिमतोपप्रदर्शनायाह श्रुतस्कन्धः१ इणमन्नं तु अन्नाणं, इहमेगेसि आहियं / देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥सूत्रम् 5 // ( // 64 // ) प्रथममध्ययनं समयः, ईसरेण कडेलोए, पहाणाइ तहावरे। जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए।सूत्रम् 6 // / // 65 // ) तृतीयोद्देशकः सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए। सूत्रम्॥ ( // 66 // ) सूत्रम् 5-7 (64-66) इद मिति वक्ष्यमाणम्, तुशब्दः पूर्वेभ्यो विशेषणार्थः, अज्ञान मिति मोहविजृम्भणं- इह अस्मिन् लोके एकेषां न सर्वेषांक वादनिरास: आख्यातं अभिप्रायः, किं पुनस्तदाख्यातमिति? तदाह- देवेनोप्तो देवोप्तः, कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः, देवैर्वा गुप्तो- रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तथाहि तेषामयमभ्युपगमः- ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति ॥५॥६४॥तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च तेसर्वमिदं विमत्यधिकरणभावापन्नं तनुभुवनकरणादिकं धर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति दृष्टान्त:, यद्यत्संस्थानविशेषवत्तत्तद्बुद्धिमत्कारणपूर्वकं दृष्टम्, यथा देवकुलकूपा-8 दीनि, संस्थानविशेषवच्च मकराकरनदीधराधरधराशरीरकरणादिकं विवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकम्, यश्च / समस्तस्यास्य जगतः कर्तास सामान्यपुरुषो न भवतीत्यसावीश्वर इति, तथा सर्वमिदंतनुभुवनकरणादिकं धर्मत्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत्, तथा स्थित्वा प्रवृत्तेर्वास्यादिवदिति / तथाऽपरे प्रतिपन्ना Oदृष्टान्तोऽयं (मु०)। 0 प्रवृत्तेर्वा, वास्या० (मु०)। // 78 //