________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 77 // अनन्तघात आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः॥१॥६०॥इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनांकटुकविपाका- श्रुतस्कन्धः१ विर्भावनाय श्लोकद्वयन दृष्टान्तमाह- तमेव आधाकर्मोपभोगदोषं अजानाना विषमः-अष्टप्रकारकर्मबन्धो भवकोटिभिरपि प्रथममध्ययनं समय:, दुर्मोक्ष: चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति? कथं वा न भवति? केन वोपायेनायं संसारार्णवस्तीर्यत तृतीयोद्देशकः इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति / अत्र दृष्टान्तमाह- यथा मत्स्याः पृथुरोमाणो. सूत्रम् 1-4 (60-63) विशाल:- समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका:बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे समुद्रवेला (यामागता) यां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमाला- प्राप्तिः प्रणुन्नाः सन्त उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमें तस्मिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव / धुनीमुखे विलग्ना अवसीदन्त आमिषगृध्नुभिर्डहैश्चक.श्च पक्षिविशेषैरन्यैश्च मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्धातमनुभवन्तः अशरणा 'घातं' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः // 2-3 // 61-62 // एवं दृष्टान्तमुपदर्घ्य दार्टान्तिके योजयितुमाह- यथैतेऽनन्तरोक्ता मत्स्यास्तथा श्रमणाः श्राम्यन्तीति श्रमणा एके शाक्यपाशुपतादयः स्वयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखं आधाकर्मोपभोगजनितमेषितुंशीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव घातं विनाशं एष्यन्ति अनुभविष्यन्ति अनन्तशः अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः // 4 // 63 // साम्प्रतम®लाऽपनुन्नाः (मु०)। ॐ ग्रधनुभिर्डहैकद्देश्च (मु०)। // 77 //