SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं समय:, तृतीयोद्देशकः सूत्रम् 1-4 (60-63) श्रुतस्कन्धः१ अनन्तघात प्राप्तिः उदगस्स पभावेणं, सुक्कं सिग्धं तमिति उ / ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही। सूत्रम् 3 // ( // 62 // ) एवं तु समणा एगे, वट्टमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेस्संतिणंतसो॥सूत्रम् 4 // ( // 63 // ) अस्य चानन्तरसूत्रेण सहायं सम्बन्ध- इहानन्तरोद्देशकपर्यन्तसूत्रेऽभिहितम्, ‘एवं तु श्रमणा एके' इत्यादि, तदिहापि सम्बध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतं भुजानाः संसारंपर्यटन्तीति, परम्परसूत्रे त्वभिहितं बुज्झिज्ज' इत्यादि, यत्किञ्चित्पूतिकृतं तद्बुध्येतेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धो योज्यः। अधुना सूत्रार्थः प्रतीयते- यत्किञ्चिदिति आहारजातं स्तोकमपि, आस्तां तावत्प्रभूतम्, तदपि पूतिकृतं आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम्, अपितु श्रद्धावता अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य ईहितंचेष्टितं निष्पादितम्, तच्च सहस्रान्तरितमपि यो भुञ्जीत अभ्यवहरेदसौ द्विपक्षंगृहस्थपक्ष० प्रव्रजितपक्षंचाऽऽसेवते, एतदुक्तं भवति- एवंभूतमपि परकृतमपरागन्तुकयत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुजानस्यद्विपक्षासेवनमापद्यते, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते?, ते तु सुतरां द्विपक्षासेविनो भवन्तीत्यर्थः, यदिवा-'द्विपक्ष'मिति ईर्यापथं सांपरायिकं च, अथवा- पूर्वबद्धा निकाचिताद्यवस्थां कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, तथा चागमः- आहाकम्मण भुञ्जमाणे समणे कई कम्मपयडीओ बंधइ?, गोयमा! अट्ठकम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ घणियबंधणबद्धाओ करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठिझ्याओ दीहठिइयाओ करेइ इत्यादि / ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूथ्या वा द्विपक्षसेव० (मु०)। 9 ते च सुतरां द्विपक्षसे० (मु०)। 0 पथ: (मु०)। 0 ०वस्थाः (मु०)। Oआधाकर्म भुञ्जानः श्रमणःकति कर्मप्रकृतीर्बध्नाति? गौतम! अष्टकर्मप्रकृतीर्बध्नाति, शिथिलबन्धनबद्धा गाढबन्धनबद्धाः करोति चिताः करोति उपचिताः करोति हस्वकालस्थितिका दीर्घकालस्थितिकाः करोति। // 76 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy