SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ समयः, / / 74 / / (56-59) द्विष्टमनसः श्रीसूत्रकृताङ्गं तन्निमित्तो बन्धो सुहुमोऽवि देसिओ समए।अणवज्जो उपयोगेण सव्वभावेण सो जम्हा॥२॥स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्बन्धो / श्रुतस्कन्धः१ नियुक्ति प्रथममध्ययन भवत्येव, सच भवताऽप्यभ्युपगत एव अव्यक्तंतत्सावद्य'मित्यनेनेति / तदेवं मनसोऽपि क्लिष्टस्यैकस्यैव व्यापारेबन्धसद्भावात् / श्रीशीला० वृत्तियुतम् यदुक्तं भवता 'प्राणी प्राणिज्ञान' मित्यादि तत्सर्वं प्लवत इति, यदप्युक्तं- 'पुत्रं पिता समारभ्ये'त्यादि तदप्यनालोचिताभि- द्वितीयोद्देशकः श्रुतस्कन्धः१ धानम्, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्व्यापादयति, एवंभूतचित्तपरणतेश्च कथमसंक्लिष्टता?, सूत्रम् 29-32 चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोरविसंवादोऽत्रेति / यदपि च तैः क्वचिदुच्यते- यथा परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति,तदपि उन्मत्तप्रलपितवदनाकर्णनीयम्, यतः परव्यापादितेऽपि पिशितभक्षणेऽनु- संसारमजनम् मतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितं-अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः॥१॥यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैरकारीति / तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति // 29 // 56 // अधुनैतेषांक क्रियावादिनामनर्थपरम्परांदर्शयितुमाह- इत्येताभिः पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति दृष्टिभिःअभ्युपगमैस्ते वादिनः सातगौरवनिःश्रिताः सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्चसंसारोद्धरणसमर्थं शरणं इदमस्मदीयं दर्शनं इति एवं मन्यमाना विपरीतानुष्ठानतया सेवन्ते कुर्वते पापं अवद्यम्, एवं व्रतिनोऽपि सन्तो जना इव जनाः प्राकृतपुरुषसदृशा इत्यर्थः॥३०॥५७॥ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला वा आस्राविणी सच्छिद्रेत्यर्थः,तां // 74 // तथाभूतां नावं यथा जात्यन्धः समारुह्य पारं तटं आगन्तुंप्राप्तुमिच्छत्यसौ, तस्याश्चास्राविणीत्वेनोदकप्लुतत्वात् अन्तराले जलमध्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दिष्टः समये। अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् // 2 // (r) भयोस्संवादो (मु०)। 0 दिते पिशित (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy