________________ समयः, 26(53) श्रीसूत्रकृताङ्ग ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद् एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी श्रुतस्कन्धः१ नियुक्तिव्यापाद्यते ततो हिंसा, हिंसातश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मोपचयः अत्र च पञ्चानां प्रथममध्ययन श्रीशीला० वृत्तियुतम् पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमङ्गे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तं- प्राणी प्राणिज्ञानं घातकचित्तं च द्वितीयोद्देशकः श्रुतस्कन्धः१8 तद्गता चेष्टा / प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा // 1 // किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव?, भवति सूत्रम् // 71 // काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह- पुट्ठो त्ति तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन अव्यक्तवाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा स्पृष्ट ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, सावद्दम् न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति / एवं च कृत्वा तद् अव्यक्तं अपरिस्फुटम्, खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात्, तदेवमव्यक्तं सहावद्येन- गर्केण वर्तते तत्परिज्ञोपचितादिकर्मेति // 25 // 52 // ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह संतिमे तउ आयाणा, जेहिं कीरइ पावगं / अभिकम्मा य पेसा य, मणसा अणुजाणिया। सूत्रम् 26 // ( // 53 // ) सन्ति विद्यन्ते अमूनि त्रीणि आदीयते- स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति- यैरादानैः क्रियते विधीयते / निष्पाद्यते पापकं कल्मषम्, तानि चामूनि, तद्यथा- अभिक्रम्ये ति आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्धाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानम्, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं O हिंसा ततश्च कर्मो (मु०)। (c) कर्मचयः (मु०)। // 71 //