SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 70 // श्रुतस्कन्धः१ प्रथममध्ययन समय:, द्वितीयोद्देशकः सूत्रम् 25 (52) अव्यक्तसावद्दम् क्रियावादिन इत्याह- कर्मणि-ज्ञानावरणादिके चिन्ता- पर्यालोचनं कर्मचिन्ता तस्याः प्रनष्टा-अपगताः कर्मचिन्ताप्रनष्टा: यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रनष्टाः तेषां चेदं दर्शनं दुःखस्कन्धस्य असातोदयपरम्पराया विवर्धनं भवति, क्वचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति // 24 // 51 // यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं काएणऽणाउट्टी, अबुहो जं च हिंसति / पुट्ठो संवेदइ परं, अवियत्तं खु सावजं ॥सूत्रम् 25 // // 52 // ) यो हि जानन् अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकुट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुट्यनाकुट्टी, इदमुक्तं भवति-यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावद्यम्, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा अबुधः अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा - 'चतुर्विधं कर्म नोपचीयते भिक्षुसमय' इति, तत्र परिज्ञोपचिताविज्ञोपचिताख्यभेदद्वयंसाक्षादुपात्तम्, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तम्, तत्रेरणमीर्या- गमनं तत्सम्बद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति- स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकम्, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति?, उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणीत्येवं 0 प्रणष्टाः (मु०)। (c) ज्ञोपचितमविज्ञोपचिताख्यं भेद० (मु०)। // 70 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy