SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 69 // पापे अकोविदा अनिपुणा दुःखं असातोदयलक्षणं तद्धेतुंवा मिथ्यात्वाद्युपचितकर्मबन्धनं नातित्रोटयन्ति अतिशयेनैतद्व्यवस्थितं श्रुतस्कन्धः१ तथा ते न त्रोटयन्ति- अपनयन्तीति,अत्र दृष्टान्तमाह- यथापञ्जरस्थः शकुनिः पञ्जरंत्रोटयितुं-पञ्जरबन्धनादात्मानं मोचयितुं प्रथममध्ययन समय:, नालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥२२॥४९॥अधुना सामान्येनैकान्तवादिमतदूषणार्थमाह- द्वितीयोद्देशकः सयं सयं पसंसंता, गरहंता परं वयं / जे उ तत्थ विउस्संति, संसारं ते विउस्सिया॥सूत्रम् 23 // ( // 50 // ) सूत्रम् 23-24 (50-51) स्वकं स्वकं आत्मीयमात्मीयं दर्शनमभ्युपगतं प्रशंसन्तो वर्णयन्तः समर्थयन्तो वा, तथा गर्हमाणा निन्दन्तः परकीयां वाचम्, नियतितथाहि- साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्वं वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, वादिमतम् तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहात् साङ्ख्यान्, एवमन्येऽपि द्रष्टव्या इति / तदेवं ये एकान्तवादिनः, तुरवधारणे भिन्नक्रमश्च, तत्रैव तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा विद्वस्यन्ते विद्वांस इवाऽऽचरन्ति, तेषु वा विशेषेणोशन्ति- स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः संसारं चतुर्गतिभेदेन संसृतिरूपं विविधंअनेकप्रकारं उत्- प्राबल्येन श्रिताः-संबद्धाः, तत्र वा संसारे उषिताः स्थिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थः // 23 // 50 // साम्प्रतं यदुक्तं नियुक्तिकारेणोद्देशकार्थाधिकारे कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह अहावरं पुरक्खायं, किरियावाइदरिसणं / कम्मचिंतापणट्ठाणं, संसारस्स पवडणं // सूत्रम् 24 // ( // 51 // ) ___ अथे त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् पुरा पूर्वं आख्यातं कथितम्, किं पुनस्तदित्याह- क्रियावादिदर्शनं क्रियैव-2 // 69 // चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलमेषां ते क्रियावादिनस्तेषां दर्शनं- आगमः क्रियावादिदर्शनम्, किंभूतास्ते 0 उषिताः संसार० (मु०)। (r) शीलं येषां (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy