SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भाग-२ पचममध्ययनं पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 441-442 पंचास्तिकाया गतिपञ्चकम् श्रीस्थानाङ्गप्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितोऽनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यम्, यत उक्तं- पंचत्थिश्रीअभय० कायमइयं लोगमणाइनिहणं। (ध्यानशतक 53) इति, अर्थतत्स्वरूपस्योक्तस्य प्रपञ्चनायानुक्तस्य चाभिधानायाह- समासतः वृत्तियुतम् सझेपतः पञ्चविधो, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह- द्रव्यतो द्रव्यतामधिकृत्य क्षेत्रतः क्षेत्रमाश्रित्य एवं कालतो // 591 // भावतश्च गुणतः कार्यतः कार्यमाश्रित्येत्यर्थः, तत्र द्रव्यतोऽसावेकं द्रव्यं तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं- असङ्खयेयाः प्रदेशास्तत्परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह- अभूच्च भवति च भविष्यति चेति, एवं त्रिकालभावित्वाद् ध्रुवो, मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवंभावान्नियतो, मा भूदनेकसर्गापेक्षयैव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितोऽनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यंभावित्वादादित्योदयवद्, नियत एकरूपत्वात्, शाश्वत: प्रतिक्षणं सत्त्वादत एवाक्षयोऽवयविद्रव्यापेक्षया अक्षतोवा परिपूर्णत्वाद्, अव्ययोऽवयवापेक्षया, अवस्थितो निश्चलत्वात्, तात्पर्यमाह-नित्य इति, अथवा इन्द्रशक्रादिशब्दवत्पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्त्यर्थमुपन्यस्ता इति, तथा गुणतो गमनं- गतिस्तद् गुणो- गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्यं मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः- उपकारो जीवादीनां यस्मादसौ गमनगुण इति, एवं चेव त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत-ठाणगुणे त्तिस्थानं-स्थितिर्गुणः- कार्यं यस्य सस्थानगुणः, (r) पञ्चास्तिकायमयं लोकमनादिनिधनम् / // 591 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy