________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ पश्चममध्ययन पश्चस्थानम्, तृतीयोद्देशकः सूत्रम् // 592 // स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्यं करोति स्थाने वा- स्थितौ गुण:- उपकारो यस्मात् स तथा, लोगालोगे त्यादिलोकालोकयोस्तव्यक्त्योर्यत्प्रमाणं- अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणः- कार्य यस्य तस्यां वा गुणः- उपकारो यस्मात्सोऽवगाहनागुणः, अणंताई दव्वाई ति अनन्ता जीवास्तेषां च प्रत्येकं द्रव्यत्वादिति, अरूवी जीवे त्ति जीवास्तिकायोऽमूर्तस्तथा चेतनावानिति, उपयोग:-साकारानाकारभेदं चैतन्यं गुणो- धर्मो यस्य स तथा, शेषं तदेव यदधर्मास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति, गहणगुणे त्ति ग्रहणं- औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो- धर्मो यस्य स तथा। अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धस्तत्र पंचे त्यादि गतिसूत्रं कण्ठ्यम्, नवरं गमनं गति 1 र्गम्यत इति वा गति:-क्षेत्रविशेषो 2 गम्यते वा अनया कर्मपुद्गलसंहत्येति गति मकर्मोत्तरप्रकृतिरूपा 3 तत्कृता वा जीवावस्थेति 4, तत्र निरये- नरके गति 4 निरयश्चासौ गतिश्चेति वा 2 निरयप्रापिका वा गति 3 निरयगतिः, एवं तिर्यक्षु 4 तिरश्चां 2 तिर्यक्त्वप्रसाधिका वा गति 3 स्तिर्यग्गतिः, एवं मनुष्यदेवगती, सिद्धौ गतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिर्गतिरिह नामप्रकृतिर्नास्तीति ।अनन्तरं सिद्धिगतिरुक्ता, साचेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वेसति भवतीतीन्द्रियार्थानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह पंच इंदियत्था पं० तं०-सोर्तिदियत्थे जाव फासिंदियत्थे १।पंच मुंडा पं० तं०- सोर्तिदियमुंडे जाव फासिंदियमुंडे 2, अहवा (c) व्युत्पत्तिचतुष्कग्रहणसूत्रणाय चतुष्कः, आद्ये रत्नप्रभाद्यामाश्रित्य गमनं द्वितीये तत्क्षेत्रविषये तृतीये नरकावस्थाया हेतुः कर्म तुर्ये नरकभवः / 443-444 इन्द्रियार्थाः, श्रोत्रेन्द्रियादिक्रोधादिमुण्डाः , अधऊर्ध्वतिर्यग्बादराः बादरतेजोवायवः, अचित्तवायवः। (इन्द्रियस्वरूपम्) // 592 //