________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 588 // 439-440 यगणापक्रम पंचमट्ठाणस्स बिइओ उद्देसो॥ पश्चममध्ययन पंचही त्यादि सुगमम्, नवरमाचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद्- गच्छादपक्रमणं-निमो गणापक्रमणम्, पञ्चस्थानम्, द्वितीयोद्देशकः आचार्योपाध्यायो गणे गच्छविषये आज्ञां वा योगेषु प्रवर्तनलक्षणां धारणां वा-विधेयेषु निवर्तनलक्षणाम्, नो नैव सम्यग्-8 सूत्रम् यथौचित्यं प्रयोक्ता- तयोः प्रवर्तनशीलोभवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति आचार्योकालिकाचार्यवदित्येकम्, तथा गणविषये यथारत्नाधिकतया- यथाज्येष्ठं कृतिकर्म तथा वैनयिकं-विनयं नो नैव सम्यक पाध्याप्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वाद्, यतः आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्त्तव्य कारणानि, एवेति द्वितीयम्, तथा असौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि अर्हदादिका काले 2- यथावसरेनो सम्यगनुप्रवाचयिता-तेषांपाठयिता भवति, गणे त्ति इह सम्बध्यते, तेन गणे- गणविषये गणमित्यर्थ- ऋद्धिमन्तः स्तस्याविनीतत्वात् स्वस्यवा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम्, तथा असौगणे वर्तमानः सगणियाए त्ति स्वगणसम्बन्धिन्यां परगणियाए त्ति परगणसत्कायां निर्ग्रन्थ्यांतथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्या बहिर्लेश्या- अन्तःकरणं यस्यासौ बहिर्लेश्यः, आसक्तो भवतीत्यर्थ, एवंगणादपक्रामतीति,नचेदमधिकगुणत्वेन अस्यासम्भाव्यम्, यतः पठ्यते-कम्माई नेणं घणचिक्कणाइं गरुयाई वज्जसाराई। नाणड्डयंपि पुरिसं पंथाओ उप्पहं निंति॥१॥ इति चतुर्थम्, तथा मित्रज्ञातिगणो वा-सुहृत्स्वजनवर्गोवा से तस्याचार्यादेः कुतोऽपि कारणाद् गणादपक्रामेदतस्तेषां सुहृत्स्वजनानां सङ्ग्रहाद्यर्थ गणादपक्रमणं प्रज्ञप्तम्, तत्र सङ्घहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम् / अनन्तर0वसरे (मु०)। 7 तस्य (मु०)। 0 गुरुकाणि वज्रसाराणि चिक्कणानि कर्माणि घनानि। ज्ञानाढ्यमपि पुरुषं नूनं पथ उत्पथं नयन्ति॥१॥ // 588 //