________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 586 // परिवारवंच वणियंतरावणुट्ठाणे (अंतरापणो वीथी), दुट्ठाणनिग्गममि य (द्विर्निर्गमे) हाणी य (विनयस्य) परंमुहाऽवन्नो॥१॥ (व्यव०भा० पञ्चममध्ययनं 2543) (अवर्णो नूनं द्विर्भुङ्क्त इति) गुणवंत जतो वणिया पूइंतऽन्ने विसन्नया तंमि। पडिओत्ति अणुट्ठाणे (अनुत्थाने) दुविहनियत्ती पश्वस्थानम्, द्वितीयोद्देशकः अभिमुहाणं॥१॥(व्यव०भा०२५४४)(श्रावकत्वप्रव्रजितत्वाभ्यां निवृत्तिरिति) तथा मत्सरिभ्यः सकाशान्मरणबन्धनापभ्रा सूत्रम् 438 जनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः, तथा प्रभुः- समर्थः इच्छा- अभिलाषो वैयावृत्त्यकरणे आचार्यो पाध्याययोयदि भवेत्तदा वैयावृत्त्यं- भक्तपानगवेषणग्रहणतः साधुभ्यो दानलक्षणं कुर्याद्, अथेच्छा-अभिलाषस्तदकरणे तन्न कुर्यादिति, गणेऽतिशयाः भावार्थस्त्वयं- आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि-उप्पन्ननाणा जह नो अडुति, चोत्तीसबुद्धाइसया जिणिंदा / एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इड्डिमं तु॥१॥ (व्यव०भा० 2571) दोषास्त्वमी-भारेण वेदणा वा हिंडते उच्चनीयसासो वा। (व्यव०भा० २५७४)आइयणछड्डणाई (प्रचुरपानकादेरापानादौ छादयो) गेलन्ने पोरिसीभंगो॥१॥ (व्यव०भा० 2576) इति, एवमादयोऽनेके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एते च सामान्यसाधोरपि प्रायः समानास्तथापिगच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च- जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा। न हु तुंबंमि विणढे अरया साहारया होंति॥१॥ त्ति तृतीयस्तथा अन्तरुपाश्रय एका चासौ रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्योः समाहारो। द्विरानंतद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति (प्रायतिषत) द्विर्निर्गमे च हानिर्विनयस्य पराङ्गखेऽवर्णः // 1 // 0 यतो वणिजो गुणवतः पूजयन्ति अन्यानपि च संज्ञार्थं यातः। पतित इत्यनुत्थानेऽभिमुखानां निवृत्तिर्द्विविधा // 1 // चतुस्त्रिंशद्बुद्धातिशया जिनेन्द्रा यथा न भिक्षामटन्ति / एवमष्टगुणोपपेतो गण्यपि शास्ता इव ऋद्धिमानो हिण्डते॥१॥ भारेण वेदना हिण्डमाने 8 उच्चनीचश्वासो वा / आदाने पानकच्छईनाद्या ग्लानत्वे पौरुषीभङ्गश्च // 1 // यस्यायत्तं कुलं तं पुरुष आदरेण रक्षयेत् / नेमौ विनष्टायां साधारका अरका नैव भवन्ति // 1 // // 586