________________ श्रीअभय० वृत्तियुतम् भाग-२ // 584 // आयरिए त्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदायकत्वादु पशममध्ययनं पाध्याय इति तस्य, आचार्योपाध्याययोर्वा, न शेषसाधूनाम्, गणे साधुसमुदाये वर्तमानस्य वर्तमानयोर्वा गणविषये वा पञ्चस्थानम्, शेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चातिशेषाः- अतिशयाः प्रज्ञप्तास्तद्यथा- आचार्योपाध्यायोऽन्तर्मध्ये उपाश्रयस्य वसतेः पादौ द्वितीयोद्देशकः 8 सूत्रम् 438 निगृह्य 2 पादधूलेरुद्धूयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्यान भ्रियन्ते तथेत्यर्थः, प्रस्फोटयित्वा आभिग्रहिकेना- आचार्योन्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन् झाटयन्नित्यर्थः, प्रमार्जयन्वा शनैलूंषयन् पाध्याययो गणेऽतिशयाः नातिक्रामतीति, इह च भावार्थ इत्थमास्थितः- आचार्यः कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको भवेत्तदा वसतेरन्तः प्रस्फोटयेत्, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्टि चेत्येको, न प्रत्युपेक्षते प्रमाीति द्वितीयः, प्रत्युपेक्षते न प्रमार्टीति तृतीयः, प्रत्युपेक्षते प्रमार्टि चेति चतुर्थो, यत्तत्प्रत्युपेक्ष्यते प्रमाय॑ते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं 4 दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा 5 सुप्रत्युपेक्षितंदुष्प्रमार्जितं वा 6 सुप्रत्युपेक्षितंसुप्रमार्जितं वा७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेद्, उक्तं च-अइवाइगंमि बाहिं अच्छंति मुहत्तगं थेर (व्यव०भा० २५२४)त्ति अल्पार्थके सप्ततालमानं (अतिपातितोऽस्थिरः), ततो वसतौ प्रविशेत्, कः केन चास्य पादौ प्रमार्जयतीत्युच्यते-अभिग्गहियस्स असई तस्सेव रओहरेण अन्नयरो। (तस्यैवेत्याचार्यस्यैव) पाउंछणुन्निएण व पुंछइ उ अणन्नभुत्तेणं॥१॥ (व्यव०भा० 2526) ति। वसतेरन्तःप्रविष्टस्य चायं विधिर्विपुलायां वसतावपरिभोगOअतिपातिकेऽस्थिरे बहिर्मुहूर्त्तकं तिष्ठन्ति स्थविराः॥ Oआभिग्रहिकस्यासति तस्यैव रजोहरणेनान्यतरः। पादप्रोञ्छनेनौर्णिकेन वा पुञ्छति त्वनन्यभुक्तेन // 1 //