________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 579 // सूत्रम् 434 // उसभेणं अरहा कोसलिए पंचधणुसताई उडं उच्चत्तेणं होत्था १।भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाई उई उच्चत्तेणं हुत्था २।बाहुबली णमणगारे एवं चेव 3 बंभीणामज्जा एवं चेव ४एवं सुंदरीवि५,॥सूत्रम् 435 // कण्ठ्यश्चायम्, नवरं मालवं(व) तो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयोऽवगन्तव्या इति, इह च देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूलयोर्विचित्रकूटचित्रकूटाभिधानौ योजनसहस्रोच्छ्रितौ मूले सहस्रायामविष्कम्भावुपरि पञ्चक योजनशतायामविष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वतौ स्तस्ततस्ताभ्यामुत्तरतोऽनन्तरोदितान्तरः शीतोदामहानदीमध्यभागवर्ती दक्षिणोत्तरतो योजनसहनमायतः पूर्वापरतः पञ्च योजनशतानि विस्तीर्णो वेदिकावनखण्डद्वयपरिक्षिप्तो दश योजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णया क्रोशोच्छ्रितया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तरशतसङ्ख्यपद्यैस्तदन्येषांक च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानमध्यभागो निषधो महाह्रदः, एवमन्येऽपि निषधसमानवक्तव्यता:स्वसमानाभिधानदेवनिवासा उक्तान्तरा:समवसेयाः, नवरं नीलवन्महाह्रदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्यां यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतः शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येकं दशभिर्दशभिः काञ्चनकाभिधानैर्योजनशतोच्छ्रितैर्योजनशतमूलविष्कम्भैः पञ्चाश-1 द्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यवस्थितैर्गिरिभिरुपेताः, एतेषां च पश्चममध्ययन पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रम् 434-435 जम्बू-धातकीपुष्करपूर्वापरार्द्ध-पूर्वसीता-पश्चिमसीतोदोत्तरदक्षिणवक्षस्कार (30) देवकरूतरकुरुहदसीता-सीतोदामन्दरासन्नाद्धसमयक्षेत्रभरतादीनि, ऋषभ-भरतबाहुबलिब्राही-सुन्दरीतनुमानम् // 579 //