SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 577 // पंचविधे आयारपकप्पे पं० तं०- मासिते उग्घातिते मासिए अणुग्याइए चउमासिए उग्घाइए चाउम्मासिए अणुग्घातीते आरोवणा। आरोवणा पंचविहा पं० तं०- पट्ठविया ठविया कसिणा अकसिणा हाडहडा // सूत्रम् 433 // आचरणमाचारो-ज्ञानादिविषयाऽऽसेवेत्यर्थो ज्ञानाचार:- कालादिरष्टधा दर्शन-सम्यक्त्वं तदाचारो-निःशङ्कितादिरष्टधैव चारित्राचार:- समितिगुप्तिभेदोऽष्टधा तपआचारोऽनशनादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति। आचारस्यप्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्पो-निशीथाध्ययनम्, सच पञ्चविधः -पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि-तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते१केषुचिच्च गुरुमासापत्तिररेवं लघुचतुर्मास ३गुरुचतुर्मासा ४ऽऽरोपणाश्चेति 5, तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो- भागपातो यत्रास्ति तदुद्धातिकं लम्वित्यर्थो, यत उक्तं-अद्धेण छिन्नसेसं पुव्वद्धेण तु संजुयं काउं। देउजाहि लहुयदाणं गुरुदाणं तत्तियं चेव॥१॥ इति, एतद्भावना मासिकतपोऽधिकृत्योपदय॑ते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तमासापेक्षया च पूर्वस्य- पञ्चविंशतिकस्यार्द्धनसार्धद्वादशकेन संयुतं कृतं सा - सप्तविंशतिर्भवतीति / आरोपणा तु चडावणत्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्नमेव मासलघुमासगुरुप्रभृतिकं दीयते, यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति / आरोवणे ति आरोपणोक्तस्वरूपा, तत्र पट्ठविय त्ति बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति-वोढुमारभते तदपेक्षयाऽसौ प्रस्थापितेत्युक्ता१, ठविय त्ति यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतम्, न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवैयावृत्त्यकरणार्थम्, तद्धि वहन्न शक्नोति वैयावृत्त्यं कर्तुम्, वैयावृत्त्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत इति 2, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोषस्त्वयं- इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णां मासानामुपरि पञ्चममध्ययन पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रम् 432-433 ज्ञानाद्याचाराः, मासिकाद्याचारप्रकल्पा :, प्रस्थापिताद्यारोपण:
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy