SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 575 // गाथे- परिहारेण विसुद्धं सुद्धोय तवो जहिं विसेसेणं / तं परिहारविसुद्धं परिहारविसुद्धियं नाम॥१॥तंदुविकप्पं निव्विस्समाणनिविट्ठकाइयवसेणं / परिहारियाणुपरिहारियाण कप्पट्ठियस्सऽविय॥२॥ (विशेषाव०१२७०-७१) इति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषांच निर्विशमानकानामयं परिहारो-ग्रीष्मे जघन्यादीनि चतुर्थषष्ठाष्टमादीनि शिशिरेतु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पारणके चायामम्, इतरेषां सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः षडेव पुनर्वाचनाचार्यः षडिति सर्व एवायमष्टादशमासिकः कल्प इति। तथा सूक्ष्मा:-लोभकिट्टिकारूपाः सम्पराया:-कषाया यत्र तत्सूक्ष्मसम्परायम्, तदपि द्विधा-विशुद्ध्यमानकं सङ्क्लिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सङ्क्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, तत्रोक्तं-कोधाइ संपराओ तेण जओ संपरीई संसारं / तं सुहमसंपरायं सुहमो जत्थावसेसो से॥१॥सेटिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स / तह संकिलिस्समाणं परिणामवसेण विन्नेयं // 2 // (विशेषाव० 1277-78) इति अथशब्दो यथार्थो, यथैवाकषायतयेत्यर्थः, आख्यातं- अभिहितम्, अथाख्यातंतदेव संयमोऽथाख्यातसंयमोऽयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिनः सयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि-अहसदो जाहत्थो आङोऽभिविहीएँ / Oपरिहारेण विशुद्धं यत्र विशेषेण शुद्धं च तपः। तत्परिहारविशुद्धं परिहारविशुद्धिकं नाम // 1 // तद्विविकल्पं निर्विशमाननिर्विष्टकायिकवशात् / परिहारिकानुपरिहारिकाणां कल्पस्थितस्यापि च // 2 // O क्रोधादिः संपरायो यतस्तेन संसारं संपरैति। यत्र स सूक्ष्मोऽवशिष्टस्तत्सूक्ष्मसंपरायम् / / 1 / / श्रेणिं विलगतस्तद्विशुद्ध्यमानं ततश्च्यवमानस्य / तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् // 2 // 0 अथशब्दो याथार्थ्य आङभिविधौ . पञ्चममध्ययनं पूचस्थानम्, द्वितीयोद्देशकः सूत्रम् 427-431 संलीनताउसलीनताः, संवरासवराः, सामायिकादिसंयमाः, एकेन्द्रियानारम्भारम्भसंयमाउसयमाः , पोन्द्रियसर्व-प्राणाद्यनारम्भारम्भसंयमासंयमाः, अग्र बीजाद्या वनस्पतिभेदाः (चारित्रस्वरूपम्) // 575 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy