________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 574 // पचममध्ययन पूयस्थानम्, द्वितीयोद्देशकः सूत्रम् 427-431 संलीनताऽसंलीनता:, सवरासवराः, सामायिकादि सयमा, कार्यमिति, भवन्ति चात्र गाथा:- सव्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं / अविसेसियमादिमयं ठियमिह सामन्नसन्नाए। 1 // सावज्जजोगविरइत्ति तत्थ सामाइयं दुहा तं च / इत्तरमावकहतिय पढमं पढमंतिमजिणाणं॥२॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं / सेसाणमावकहियं तित्थेसु विदेहयाणं च॥३॥ (विशेषाव० 1262-64) इति, तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं ते वा विद्यते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोप-8 स्थाप्यते- आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयम्, तदपि द्विधा- अनतिचारं सातिचारं च, तत्रानतिचार यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्तौ, सातिचारंतु यन्मूलप्रायश्चित्तप्राप्तस्येति, इहापिगाथे- परियायस्स उछेओ जत्थोवठ्ठावणं वएसुंच। छेओवट्ठावणमिह तमणइयारेतरंदुविहं॥१॥सेहस्स निरइयारं तित्थंतरसंकमे व तं होजा। मूलगुणघाइणो साइयारमुभयं च ठियकप्पे॥२॥ (विशेषाव० 1268-69) (प्रथमपश्चिमतीर्थयोरित्यर्थः), तथा परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत्परिहारविशुद्धं तदेव परिहारविशुद्धिकम्, परिहारेण वा विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकम्, तच्च द्विधा- निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकानां तदासेवकानां यत्तन्निर्विशमानकम्, यत्तु निर्विष्टकायानामासेवितविवक्षितचारित्रकायानां तन्निर्विष्टकायिकमिति, इहापि वनस्पतिभेदाः Oसर्वमिदं सामायिक छेदादिविशेषतः पुनर्विभिन्नम् / अविशेषितमादिमं स्थितं चैतदिह सामान्यसंज्ञया // 1 // सावद्ययोगविरतिरिति तत्र सामायिकं द्विधा तच्च।। इत्वरं यावत्कथिकमिति च प्रथमं प्रथमान्तिमजिनयोः // 2 // तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालीनम् / शेषाणां यावत्कथिकं तीर्थेषु विदेहगानां च // 3 // OR पर्यायस्य तु छेदो यत्रोपस्थापनं च व्रतेषु / छेदोपस्थापनमिहतदनतिचारेतरत्वाभ्यां द्विविधम् // 1 // शिष्यस्य निरतिचारं तीर्थान्तरसंक्रमे वा तद्भवेत् / मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे॥२॥ एकेन्द्रियानारम्भारम्भसंयमाउसयमाः . पधन्द्रियसर्व-प्राणाद्यनारम्भारम्भसयमासंयमाः, अग्र बीजाद्या M (चारित्रस्वरूपम्) // 574 //