SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 570 // कारणानि पंचही त्यादि सुगमम्, नवरं दुर्लभा बोधि-र्जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभबोधिकतया तस्यै वा कर्म- पञ्चममध्ययन मोहनीयादि प्रकुर्वन्ति- बध्नन्ति, अर्हतामवर्णं- अश्लाघांवदन्, यथा-नत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए? / पाहुडियं पञ्चस्थानम्, तुवजीवई (समवसरणादिरूपां) एमाइ जिणाण उ अवनो॥१॥ न च ते नाभूवन्तत्प्रणीतप्रवचनोपलब्धेर्नापि भोगानुभवनादि द्वितीयोद्देशकः सूत्रम् 426 र्दोषोऽवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावा बोधिदिति, तथा अर्हत्प्रज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा किंचारित्रेण दानमेव श्रेय इत्यादिकमवणं / वदन्, उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति, आचार्योपाध्यायानामवर्णं वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिर्वृद्धत्वादिति, तथा चत्वारो वर्णाः- प्रकारा श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाण्विधानाच्चातुवर्णस्तस्य सङ्घस्यावर्णं वदन् / यथा-कोऽयं सङ्घो? यः समवायबलेन पशुसङ्घ इवामार्गमपि मार्गीकरोतीति, नचैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वं- सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थस्तपश्च ब्रह्मचर्यं च भवान्तरे / येषां विपक्वं वा- उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा तेषामवर्णं वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात्, किंवा तैर्विटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं?, इहोत्तरं- सन्ति देवास्तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि, // 570 // (r) नास्त्यर्हन् जानानो वा कथं भोगान् भुनक्ति? / प्राभृतिकां वोपजीवति इत्यादि तु जिनानामवर्णः॥ 1 // ॐ ज्ञानादिहेतोरेवाचरणायां समुपादानात्। 0 पूर्वपुरुषाणां तथाविधकारणाभावाद् तथाविधाचरणाभावादमार्गत्वं तथा च्वावपि व्युत्पत्तौ विरोधो न /
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy