________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 569 // पञ्चममध्ययन पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रम् 426 दुर्लभसुलभबोधिकारणानि जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहमे इति वचनाद्, अस्य चायमर्थः- एकाकी गच्छभ्रष्टो यदि जागर्त्ति दुग्धादिषु च न प्रतिबद्ध्यते तदा यद्यप्यसौगच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपिमासचतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयं चतुर्मासद्वयंचावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तद्दोषाभिधानाद्, उक्तंच-"उउवासा समईता कालातीता उ सा भवे सेज्जा। सा चेव उवट्ठाणा दुगुणा दुगुणं अवज्जित्ता // 1 // (बृहत्क० 595) इति तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तं- विहिगहियं विहिभुत्तं अइरेगं भत्तपाण भोत्तव्वं / विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा॥१॥ (ओघनि० ५९२)अहवाविय विहिगहियं विहिभुत्तं तं गुरुहऽणुन्नायं। सेसा नाणुन्नाया गहणे दिन्ने च निज्जुहणं॥२॥ उद्गमादिभिरेव भक्तानां कल्प्यता:-विशुद्धय इति / उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयं पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मंपकरेंति, तं०- अरहताणं अवन्नं वदमाणे 1 अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 2 आयरियउवज्झायाण अवन्नं वदमाणे 3 चाउवन्नस्स संघस्स अवन्नं वयमाणे 4 विवक्तवबंभचेराणं देवाणं अवन्नं वदमाणे 5 / पंचहि ठाणेहिं जीवा सुलभबोधियत्ताए कम्मंपगरेंति, तं०- अरहताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वन्नं वदमाणे॥ सूत्रम् 426 // Oजागरणमप्रतिबन्धः (स्तदा) यद्यपि चिरेणागच्छति गच्छे न तथाप्युपहन्यात्।। 0 ऋतुवर्षयोर्मासचतुर्मास्योरग्रतः कालातीता भवेच्छय्या / सा चैवोपस्थाना द्विगुणं 2 अवर्जयित्वा // 1 // 0 विधिगृहीतं विधिभुक्तमतिरेकं भक्तपानं भोक्तव्यम् / विधिगृहीते विधिभुक्ते अत्र च भवेयुश्चत्वारो भङ्गाः॥१॥ अथवा विधिगृहीतं विधिभुक्तं तद्गुरुभिरनुज्ञातम्। शेषा नानुज्ञाता गृहीते दत्ते वा नि!हणा(त्यागः) // 2 // // 569 //